2022-10-03 13:35:15 by suhasm
This page has been fully proofread once and needs a second look.
यत्रेति ॥ यत्रालकायां पादपा वृक्षाः नित्यानि पुष्पाणि येषां ते
तथा । नत्वृतुनियमादिति भावः । अत एवोन्मत्तैर्भ्रमरैर्मुखराः शब्दा-
यमानाः । नलिन्यः पद्मिन्यो नित्यानि पद्मानि यासां तास्तथा न तु
हेमन्तवर्जितमित्यर्थः । अत एव हंसश्रेणीभी रचितरशनाः । नित्यं
हंसपरिवेष्टिता इत्यर्थः । भवनशिखिनः क्रीडामयूरा नित्यं भास्वन्तः
कलापा बर्हाणि येषां ते तथोक्ताः । न तु वर्षास्वेव । अत एव केका-
भिरुत्कण्ठा उद्ग्रीवाः । प्रदोषा रात्रयो नित्या ज्योत्स्ना येषां ते । न
तु शुक्लपक्ष एव । अत एव प्रतिहता तमसां वृत्तिर्व्याप्तिर्येषां ते च ते
रम्याश्चेति तथोक्ताः ॥
आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तै-
र्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् ।
नाप्यन्यस्मात्प्रणयकलहाद्विप्रयोगोपपत्ति-
र्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥
आनन्देति ॥ यत्रालकायां वित्तेशानां यक्षाणाम् ॥ " वित्ताधिपः
कुबेरः स्यात्प्रभौ धनिकयक्षयोः” इति शब्दार्णवे ॥ आनन्दोत्थमा-
नन्दजन्यमेव नयनसलिलम् । अन्यैर्निमित्तैः शोकादिभिर्न । इष्टसंयो-
गेन प्रियजनसमागमेन साध्यान्निवर्तनीयात् । न त्वप्रतीकार्यादित्यर्थः ।
कुसुमशरजान्मदनशरजादन्यस्तापो नास्ति । प्रणयकलहादन्यस्मात्का-
रणाद्विप्रयोगोपपत्तिर्विरहप्राप्तिरपि नास्ति । किं च यौवनादन्यद्वयो
वार्धकं नास्ति ॥ श्लोकद्वयं प्रक्षिप्तम् ॥
यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि
ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः ।
आसेवन्ते मधु रति[^1]फलं कल्पवृक्षप्रसूतं
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ ३ ॥
यस्यामिति ॥ यस्यामलकायां यक्षा देवयोनिविशेषा उत्तमस्त्रीस-
हाया ललिताङ्गनासहचराः सन्तः सितमणिमयानि स्फटिकमणिम-
यानि चन्द्रकान्तमयानि वा । अत एव ज्योतिषां तारकाणां छायाः
प्रतिबिम्बान्येव कुसुमानि तै रचितानि परिष्कृतानि ॥ ज्योति-
[^1] रसाम्