This page has been fully proofread once and needs a second look.

चूडापाशे नवकुरबकं चारु कर्णे शिरीषं
सीमन्ते [^1]च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ २ ॥
 
हस्त इति ॥ यत्रालकायां वधूनां स्त्रीणां हस्ते लीलार्थं कमलं
लीलाकमलम् ॥ शरल्लिङ्गमेतत् । तदुक्तम् – “शरत् पङ्कजलक्षणा"
इति ॥ अलके कुन्तले ॥ जातावेकवचनम् ॥ अलकेष्वित्यर्थः । बा-
लकुन्दैः प्रत्यग्रमाघ्यकुसुमैरनुविद्धम् । अनुवेधो ग्रन्थनम् ॥ नपुंसके
भावे क्तः ॥ यद्यपि कुन्दानां शैशिरत्वमस्ति “माघ्यं कुन्दम्" इत्य-
भिधानात्तथापि हेमन्ते प्रादुर्भावः शिशिरे प्रौढत्वमिति व्यवस्थाभेदेन
हेमन्तकार्यत्वमित्याशयेन बालेति विशेषणम् ॥ "अलकम्" इति प्रथ-
मान्तपाठे सप्तमीप्रक्रमभङ्गः स्यात् । नाथस्तु नियतपुंलिङ्गताहानिश्चे-
ति दोषान्तरमाह । तदसत् । “स्वभाववक्राण्यलकानि तासाम्" ।
“निर्धूतान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः" इत्यादिषु
प्रयोगेषु नपुंसकलिङ्गतादर्शनात् ॥ आनने मुखे लोध्रप्रसवानां लो-
ध्रपुष्पाणां शैशिराणां रजसां परागेण ॥ "प्रसवस्तु फले पुष्पे वृक्षाणां
गर्भमोचने” इति विश्वः ॥ पाण्डुतां नीता श्रीः शोभा ॥ चूडा-
पाशे केशपाशे नवकुरबकं वासन्तः पुष्पविशेषः । कर्णे चारु पेशलं
शिरीषं ग्रैष्मः पुष्पविशेषः । सीमन्ते मस्तककेशवीथ्याम् ॥ “सीम-
न्तमस्त्रियां मस्तकेशवीथ्यामुदाहृतम्" इति शब्दार्णवे ॥ तवोपगमः ।
मेघागम इत्यर्थः । तत्र जातं त्वदुपगमजम् । वार्षिकमित्यर्थः । नीपं
कदम्बकुसुमम् । सर्वत्रास्तीति शेषः । अस्तिर्भवन्तीपरः प्रथमपुरुषे-
ऽप्रयुज्यमानोऽप्यस्तीति न्यायात् । इत्थं कमलकुन्दादि तत्तत्कार्य-
समाहाराभिधानादर्थात्सर्वर्तुसमाहारसिद्धिः । कारणं विना कार्यस्या-
सिद्धेरिति भावः ॥
 
यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा
हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः ।
केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा
नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥
 
[^1] अपि.