This page has been fully proofread once and needs a second look.

उत्तरमेघः ।
 
विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः
संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् ।
अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः
प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ १ ॥
 
विद्युत्वन्तमिति ॥ यत्रालकायां ललिता रम्या वनिताः स्त्रियो येषु
ते । सह चित्रैर्वर्तन्त इति सचित्राः । “ आलेख्याश्चर्ययोश्चित्रम्"
इत्यमरः ॥ " तेन सहेति तुल्ययोगे" इति बहुव्रीहिः । “वोपसर्ज-
नस्य” इति सहशब्दस्य समासः ॥ संगीताय तौर्यत्रिकाय प्रहतमुर-
जास्ताडितमृदङ्गाः ॥ "मुरजा तु मृदङ्गे स्याड्ढक्कामुरजयोरपि" इति
शब्दार्णवे ॥ मणिमया मणिविकारा भुवो येषु । अभ्रं लिहिन्तीत्यभ्रं-
लिहान्यभ्रंकषाणि ॥ "वहाभ्रे लिहः" इति खश्प्रत्ययः । “अरुर्द्विष-- "
इत्यादिना मुमागमः ॥ अग्राणि शिखराणि येषां ते तथोक्ताः । अति-
तुङ्गा इत्यर्थः ॥ प्रासादा देवगृहाणि ॥ "प्रासादो देवभूभुजाम्"
इत्यमरः ॥ विद्युतोऽस्य सन्तीति विद्युत्वन्तम् । सेन्द्रचापमिन्द्रचापव-
न्तम् । स्निग्धः श्राव्यो गम्भीरो घोषो गर्जितं यस्य तम् । अन्तरन्तर्गतं
तोयं यस्य तम् । तुङ्गमुन्नतं त्वां तैस्तैर्विशेषैर्ललितवनितत्वादिधर्मैस्तुल-
यितुं समीकर्तुमलं पर्याप्ताः ॥ "अलं भूषणपर्याप्तिशक्तिवारणवाचकम्"
इत्यमरः ॥ अत्रोपमानोपमेयभूतमेघप्रासादधर्माणां विद्युद्वनितादीनां
यथासंख्यमन्योन्यसादृश्यान्मेघप्रासादयोः साम्यसिद्धिरिति । बिम्बप्रति-
बिम्बभावेनेयं पूर्णोपमा । वस्तुतो भिन्नयोः परस्परसादृश्यादभिन्नयो-
रुपमानोपमेयधर्मयोः पृथगुपादानाद्बिम्बप्रतिबिम्बभावः ॥
संप्रति सर्वदा सर्वर्तुसंपत्तिमाह –
 
हस्ते लीलाकमलमलके बाल[^1]कुन्दानुविद्धं
नीता लोध्रप्रसवरजसा पाण्डुतामा[^2]नने श्रीः ।
 
[^1] कुन्दानुवेधः. [^2] आननश्रीः.