2022-10-03 13:34:11 by suhasm
This page has been fully proofread once and needs a second look.
श्रवणपरुषैः कर्णकटुभिर्गर्जितैः करणैर्भाययेस्त्रासयेः ॥ अत्र हेतुभयाभा-
वादात्मनेपदं षुगागमश्च न ॥
हेमाम्भोजप्रसवि सलिलं मानसस्याददान:
कुर्व[^1]न्कामं क्षणमुखपटप्रीतिमै[^2]रावतस्य ।
[^3]धुन्वन्कल्पद्रुमकिसलयान्यंशुकानीव वातै-
र्नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम् ॥ ६२ ॥
हेमेति ॥ हे जलद, हेमाम्भोजानां प्रसवि जनकम् ॥ "जि-
दृक्षि - " इत्यादिनेनिप्रत्ययः ॥ मानसस्य सरसः सलिलमाददानः ।
पिबन्नित्यर्थः । तथैरावतस्येन्द्रगजस्य । कामचारित्वाद्वा शिवसेवार्थ -
मिन्द्रागमनाद्वा समागतस्येति भावः । क्षणे जलादानकाले मुखे पटेन
या प्रीतिस्तां कुर्वन् ॥ तथा कल्पद्रुमाणां किसलयानि पल्लवभूतान्यं-
शुकानि सूक्ष्मवस्त्राणीव ॥ " अंशुकं वस्त्रमात्रे स्यात्परिधानोत्तरीय-
योः । सूक्ष्मवस्त्रे नातिदीप्तौ " इति शब्दार्णवे ॥ वातैर्मेघवातैर्धुन्वन् ।
नाना बहुविधाश्चेष्टास्तोयपानादयो येषु तैर्ललितैः क्रीडितैः ॥ “ना
भावभेदे स्त्रीनृत्ये ललितं त्रिषु सुन्दरे । अस्त्रियां प्रमदागारे क्रीडिते
जातपल्लवे" इति शब्दार्णवे ॥ तं नगेन्द्रं कैलासं कामं यथेष्टं
निर्विशेः समुपभुङ्क्ष्व ॥ “निर्वेशो भृतिभोगयोः" इत्यमरः । यथे-
च्छविहारो मित्रगृहेषु मैत्र्याः फलम् । सहजमित्रं च ते कैलासः ।
मेघपर्वतयोरब्जसूर्ययोरब्धिचन्द्रयोः शिखिजीमूतयोः समीराग्न्योर्मित्रता
स्वयमिति भावः ॥
तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां
न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ।
या वः काले वहति सलिलोद्गार[^4]मुचैर्विमाना
मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६३ ॥
[^1] कामातू. [^2] ऐरावणस्य. [^3] धुन्वन्वातैः सजलपृषतैः (नयनैः ) कल्पवृ-
क्षांशुकानि च्छायाभिन्नस्फटिकविशदं निर्विशेः पर्वतं तम्. [^4] उच्चैर्विमानैः