This page has been fully proofread once and needs a second look.

मुत्पश्यामि । शोभा भविष्यतीति तर्कयामीत्यर्थः ॥ श्रौती पूर्णो-
पमालंकारः ॥
 
हित्वा [^1]तस्मिन्भुजगवलयं शंभुना दत्तहस्ता
क्रीडाशैले यदि च [^2]विचरेत्पादचारेण गौरी ।
भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः
सोपानत्वं [^3]कुरु मणितटारोहणायाग्रयायी ॥ ६० ॥
 
हित्वेति ॥ तस्मिन्क्रीडाशैले कैलासे ॥ " कैलासः कनकाद्रिश्च
मन्दरो गन्धमादनः । क्रीडार्थं निर्मिताः शंभोर्देवैः क्रीडाद्रयोऽभवन्
इति शंभुरहस्ये ॥ शंभुना शिवेन भुजग एव वलयः कङ्कणं हित्वा
गौर्या भीरुत्वात्त्यक्त्वा दत्तहस्ता सती गौरी पादचारेण विचरेद्यदि
तर्ह्यग्रयायी पुरोगतस्तथा स्तम्भितो घनीभावं प्रापितोऽन्तर्जलस्यौघः
प्रवाहो यस्य स तथाभूतः । भङ्गीनां पर्वणां भक्त्या रचनया विरचित-
वपुः कल्पितशरीरः सन् मणीनां तटं मणितटं तस्यारोहणाय सोपा-
नत्वं कुरु । सोपानभावं भजेत्यर्थः ॥
 
तत्रावश्यं [^4]वलयकुलिशोद्घट्टनोद्गीर्णतोयं
नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।
ताभ्यो मोक्षस्तव यदि सखे [^5]घर्मलब्धस्य न स्या-
त्क्रीडालोला: श्रवणपरुषैर्गर्जितैर्भाययेस्ताः ॥ ६१ ॥
 
तत्रेति ॥ तत्र कैलासेऽवश्यं सर्वथा सुरयुवतयो वलयकुलिशानि
कङ्कणकोटयः ॥ शतकोटिवाचिना कुलिशशब्देन कोटिमात्रं लक्ष्य-
ते ॥ तैरुद्घट्टनानि प्रहारास्तैरुद्गीर्णमुत्सृष्टं तोयं येन तं त्वां यन्त्रेषु
धारा यन्त्रधारास्तासां गृहत्वं कृत्रिमधारागृहत्वं नेष्यन्ति प्रापयिष्य-
न्ति ॥ हे सखे मित्र, घर्मे निदाघे लब्धस्य ॥ घर्मलब्धत्वं चास्य
देवभूमिषु सर्वदा सर्वर्तुसमाहारात्प्राथमिकमेघत्वाद्वा । यथोक्तम् – “आ-
षाढस्य प्रथम - " इति ॥ तव ताभ्यः सुरयुवतिभ्यो मोक्षो न स्या-
द्यदि तदा क्रीडालोलाः क्रीडासक्ताः । प्रमत्ता इत्यर्थः । ताः सुरयुवती:
 
[^1] नीलम् [^2] विहरेत् [^3] कुरु सुखपदारोहणायाग्रयायी; व्रज पदसुखस्पर्श-
मारोहणेषु. [^4] जनितसलिलोद्गारमन्तःप्रवेशम्. [^5] शर्म.