This page has been fully proofread once and needs a second look.

गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः
कैलासस्य त्रिदशवनिता[^1]दर्पणस्यातिथिः स्याः ।
[^2]शृङ्गोच्छ्रायैः [^3]कुमुदविशदैर्यो वितत्य स्थितः खं
राशीभूतः [^4]प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥ ५८ ॥
 
गत्वेति ॥ क्रौञ्चबिलनिर्गमनानन्तरमूर्ध्वं च गत्वा दशमुखस्य रावणस्य
भुजैर्बाहुभिरुच्छ्वासिता विश्लेषिताः प्रस्थानां सानूनां संधयो यस्य तस्य।
एतेन नयनकौतुकसद्भाव उक्तः। त्रिर्दशपरिमाणमेषामस्तीति त्रिदशाः।
'सख्ंययाव्यया-' इत्यादिना बहुव्रीहिः। 'बहुव्रीहौ सख्ंयेये डच्' इत्यादिना
समासान्तो डजिति क्षीरस्वामी। त्रिदशानां देवानां वनितास्तासां दर्पणस्य।
कैलासस्य स्फटिकत्वाद्रजतत्वाद्वा बिम्बग्राहित्वेनेदमुक्तम्। कैलासस्यातिथिः
स्याः। यः कैलासः कुमुदविशदैर्निर्मलैः शुङ्गाणामुच्छ्रायैरौन्नत्यैः खमाकाशं
वितत्य व्याप्य प्रतिदिनं दिने दिने राशीभूतस्त्र्यम्बकस्य
त्रिलोचनस्याट्टहासोऽतिहास इव स्थितः। 'अट्टावतिशयक्षौमौ' इति यादवः।
धावल्याद्धासत्वेनोत्प्रेक्षा। हासादीनां धावल्यं कविसमयसिद्धम्॥
 
उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे
सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य ।
[^5]शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री-
मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ५९॥
 
उत्पश्यामीति ॥ स्निग्धं मसृणं भिन्नं मर्दितं च यदञ्जनं कज्जलं तस्यामेवाभा
यस्य तस्मिंस्त्वयि तटगते सानुं गते सति सद्यःकृत्तस्य छिन्नस्य द्विरददशनस्य
गजदन्तस्य छेदवद्गौरस्य धवलस्य तस्याद्रेः कैलासस्य मेचके श्यामले । 'कृष्णे
नीलासितश्यामकालश्यामलमेचकाः' इत्यमरः । वाससि वस्त्रेंऽसन्यस्ते सति
हलभृतो बलभद्रस्येव स्तिमिताभ्यां नयनाभ्यां प्रेक्षणीयां शोभां भवित्रीं भाविनी
 
[^1] दर्शनस्य [^2] तुङ्गोच्छ्रायैः [^3] कुसुम [^4] प्रतिदिशम् [^5] लीलामद्रेस्तिमिर .