2022-10-03 13:32:04 by suhasm
This page has been fully proofread once and needs a second look.
इति समासः । पात्रादित्वान्नपुंसकत्वम् ॥ तस्य विजयो गीयते । कन्द-
रेषु दरीषु ॥ "दरी तु कन्दरो वा स्त्री" इत्यमरः ॥ ते तव
निर्ह्रादो मुरजे वाद्यभेदे ध्वनिरिव । मुरजध्वनिरिवेत्यर्थः । स्याच्चेत्तर्हि
तत्र चरणसमीपे पशुपतेर्नित्यसंनिहितस्य शिवस्य संगीतम् ॥ " तौर्यत्रिकं
तु संगीतं न्यायारम्भे प्रसिद्धके ॥ तूर्याणां त्रितये च" इति शब्दा-
र्णवे ॥ तदेवार्थः संगीतार्थ: संगीतवस्तु ॥ “अर्थोऽभिधेयरैवस्तुप्र-
योजननिवृत्तिषु" इत्यमरः ॥ समग्रः संपूर्णो भावी ननु भविष्यति
खलु ॥ " भविष्यति गम्यादयः" इति भविष्यदर्थे णिनिः ॥
प्रालेयाद्रेरुपतट[^1]मतिक्रम्य तांस्तान्विशेषा-
न्हंसद्वारं भृगुपतियशोवर्त्म यत्क्रौञ्चरन्ध्रम् ।
तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभि
श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ ५७ ॥
प्रालेयेति ॥ प्रालेयाद्रेर्हिमाद्रेरुपतटं तटसमीपे ॥ “अव्ययं वि-
भक्ति - " इत्यादिना समीपार्थेऽव्ययीभावः ॥ तांस्तान् ॥ वीप्सायां
द्विरुक्तिः ॥ विशेषान्द्रष्टव्यार्थान् ॥ "विशेषोऽवयवे द्रव्ये द्रष्टव्यो-
त्तमवस्तुनि" इति शब्दार्णवे ॥ अतिक्रम्यानुसरेर्गच्छेरित्यनागतेन
संबन्धः ॥ हंसानां द्वारं हंसद्वारम् ॥ मानसप्रस्थायिनो हंसाः क्रौञ्च -
रन्ध्रेण संचरन्त इत्यागमः ॥ भृगुपतेर्जामदग्न्यस्य यशोवर्त्म । यश:-
प्रवृत्तिकारणमित्यर्थः । यत्क्रौञ्चस्याद्रे रन्ध्रमस्ति तेन क्रौञ्चबिलेन
बलेर्दैत्यस्य नियमने बन्धनेऽभ्युद्यतस्य प्रवृत्तस्य विष्णोर्व्यापकस्य
त्रिविक्रमस्य श्यामः कृष्णवर्णः पाद इव तिर्यगायामेन क्षिप्रप्रवेशनार्थं
तिरश्चीनदैर्घ्येण शोभत इति तथाविधः सन्नुदीचीमुत्तरां दिशमनुस-
रेरनुगच्छ ॥ पुरा किल भगवतो देवाद्धूर्जटेर्धनुरुपनिषदमधीयानेन
भृगुनन्दनेन स्कन्दस्य स्पर्धया क्रौञ्चशिखरिणमतिनिशितविशिखमुखेन
हेलया मृत्पिण्डभेदं भित्त्वा तत एव क्रौञ्चक्रोडादेव सद्यः समुज्जृ-
म्भिते । कस्मिन्नपि यशःक्षीरनिधौ निखिलमपि जगज्जालमाप्लावितमिति
कथा श्रूयते ॥
[^1] उपक्रम्य.