This page has been fully proofread once and needs a second look.

उपचितबलिं रचितपूजाविधिम् ॥ "बलि: पूजोपहारयोः” इति या -
दवः ॥ अर्धश्चासाविन्दुश्चेत्यर्धेन्दुः ॥ “अर्धः खण्डे समेंऽशके"
इति विश्वः ॥ स मौलौ यस्य तस्येश्वरस्य चरणन्यासं पादविन्या-
सम् । भक्तिः पूज्येष्वनुरागस्तया नम्रः सन्परीयाः प्रदक्षिणं कुरु ॥
परिपूर्वादिणो लिङ् ॥ यस्मिन्पादन्यासे दृष्टे सत्युद्धूतपापा निरस्त -
कल्मषाः सन्तः श्रद्दधाना विश्वसन्तः पुरुषा । श्रद्धा विश्वासः । आ-
स्तिक्यबुद्धिरिति यावत् ॥ "श्रदन्तरोरुपसर्गवद्वृत्तिर्वक्तव्या" इति
श्रत्पूर्वाद्दधातेः शानच् ॥ करणस्य क्षेत्रस्य विगमादूर्ध्वं देहत्यागान-
न्तरम् ॥ " करणं साधकतमं क्षेत्रगात्रेन्द्रियेषु च " इत्यमरः ॥
स्थिरं शाश्वतं गणानां प्रमथानां पदं स्थानम् ॥ "गणाः प्रमथसं-
ख्यौघाः" इति वैजयन्ती ॥ तस्य प्राप्तये संकल्पन्ते समर्था भवन्ति ॥
कॢपेः पर्याप्तिवचनस्यालमर्थत्वात्तद्योगे "नमःस्वस्ति - " इत्यादिना
चतुर्थी ॥ "अलमिति पर्याप्त्यर्थग्रहणम्” इति भाष्यकारः ॥ “अ-
व्यक्तं व्यञ्जयामास शिवः श्रीचरणद्वयम् ॥ हिमाद्रौ शांभवादीनां
सिद्धये सर्वकर्मणाम् ॥ दृष्ट्वा श्रीचरणन्यासं साधकः स्थितये तनुम् ।
इच्छाधीनशरीरो हि विचरेच्च जगत्त्रयम् ॥ इति शंभुरहस्ये ॥
 
शब्दायन्ते मधुरमनिलैः कीचका: पूर्यमाणाः
संसक्ताभिस्त्रिपुरविजयो गीयते किंनरीभिः ।
[^1]निर्ह्रादस्ते मुरज इव चे[^2]त्कन्दरेषु ध्वनिः स्या-
त्संगीतार्थो ननु पशुपतेस्तत्र भावी [^3]समग्रः ॥ ५६ ॥
 
शब्दायन्त इति ॥ हे मेघ, अनिलैः पूर्यमाणाः कीचका वेणुवि-
शेषाः ॥ “वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धता: “इत्यमरः ।
“कीचको दैत्यभेदे स्याच्छुष्कवंशे द्रुमान्तरे" इति विश्वः ॥ मधुरं श्रु-
तिसुखं यथा तथा शब्दायन्ते शब्दं कुर्वन्ति । स्वनन्तीत्यर्थः ॥
“शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे” इत्यादिना क्यङ् ॥ अनेन
वंशवाद्यसंपत्तिरुक्ता । संसक्ताभिः संयुक्ताभिर्वंशवाद्यानुषक्ताभिर्वा ॥
“संरक्ताभिः" इति पाठे संरक्तकण्ठीभिरित्यर्थः ॥ किंनरीभिः किंनरस्त्री-
भिः । त्रयाणां पुराणां समाहारस्त्रिपुरम् ॥ " तद्धितार्थोत्तरपद - "
 
[^1] निर्ह्रादी. [^2] कन्दरासु. [^3] समस्तः