2022-10-03 13:31:12 by suhasm
This page has been fully proofread once and needs a second look.
य इति ॥ तस्मिन्हिमाद्रौ संरम्भः कोपः ॥ “संरम्भः संक्रमे
कोपे” इति शब्दार्णवे ॥ तेनोत्पतन उत्प्लवने रभसो वेगो येषां ते
तथोक्ताः ॥ “रभसो वेगहर्षयोः" इत्यमरः ॥ ये शरभा अष्टापद-
मृगविशेषाः ॥ "शरभः शलभे चाष्टापदे प्रोक्तो मृगान्तरे" इति विश्वः॥
मुक्तोऽध्वा शरभोत्प्लवनमार्गो येन तं भवन्तं सपदि स्वाङ्गभङ्गाय ल-
ङ्घयेयुः संभावनायां लिङ् ॥ भवतोऽतिदूरत्वात्स्वाङ्गभङ्गातिरिक्तं फलं
नास्ति लङ्घनस्येत्यर्थः । ताञ्शरभांस्तुमुलाः संकुलाः करका वर्षोपलाः ॥
"वर्षोपलस्तु करका" इत्यमरः ॥ तासां वृष्टिस्तस्याः पातेनावकीर्णान्वि-
क्षिप्तान्कुर्वीथाः कुरुष्व ॥ विध्यर्थे लिङ् ॥ क्षुद्रोऽप्यधिक्षिपन्प्रतिपक्षः
सद्यः प्रतिक्षेप्तव्य इति भावः । तथाहि । आरभ्यन्त इत्यारम्भाः क-
र्माणि तेषु यत्न उद्योगः स निष्फलो येषां ते तथोक्ताः । निष्फलक-
र्मोपक्रमा इत्यर्थः । अतः के वा परिभवपदं तिरस्कारपदं न स्युर्न भ
वन्ति । सर्व एव भवन्तीत्यर्थः ॥ यदत्र “घनोपलस्तु करके" इति यादव-
वचनात्करकशब्दस्य नियतपुंलिङ्गताभिप्रायेण "करकाणामवृष्टिः” इति
केषांचिद्व्याख्यानं तदन्ये नानुमन्यन्ते । “वर्षोपलस्तु करका" इत्यम-
रवचनव्याख्याने क्षीरस्वामिना "कमण्डलौ च करकः सुगते च
विनायक: " इति नानार्थे पुंस्यपि वक्ष्यतीति वदतोभयलिङ्गताप्रकाश-
नात् । यादवस्य तु पुंलिङ्गताविधाने तात्पर्यं न तु स्त्रीलिङ्गतानिषेध
इति न तद्विरोधोऽपि । “करकस्तु करङ्के स्याद्दाडिमे च कमण्ड-
लौ । पक्षिभेदे करे चापि करका च घनोपले" इति विश्वप्रकाशव-
चने तूभयलिङ्गता व्यक्तैवेति न कुत्रापि विरोधवार्ता । अत एव रुद्रः-
“वर्षोपलस्तु करका करकोऽपि च दृश्यते " इति ॥
तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौले:
शश्वत्सिद्धै[^1]रुपचितबलिं भक्तिनम्रः परीयाः ।
यसिन्दृष्टे करणविगमा[^2]दूर्ध्वमुद्धूतपापा:
[^3]संकल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५५ ॥
तत्रेति ॥ तत्र हिमाद्रौ दृषदि कस्यांचिच्छिलायां व्यक्तं प्रकटं
शश्वत्सदा सिद्धैर्योगिभिः ॥ " सिद्धिर्निष्पत्तियोगयोः” इति विश्वः ॥
[^1] उपहृत; उपहित [^2] दूरम्. [^3] कल्पिष्यन्ते; कल्प्यन्तेऽस्य.