2022-10-03 13:27:16 by suhasm
This page has been fully proofread once and needs a second look.
इत्यमरः ॥ अचलं प्राप्य । विनीयतेऽनेनेति विनयनम् ॥ करणे ल्युट् ॥
अध्वश्रमस्य विनयनेऽपनोदके तस्य हिमाद्रेः शृङ्गे निषण्णः सन् ।
शुभ्रो यस्त्रिनयनस्य त्र्यम्बकस्य वृषो वृषभः ॥ "सुकृते वृषभे वृष: "
इत्यमरः ॥ तेनोत्खातेन विदारितेन पङ्केन सहोपमेयामुपमातुमर्हां शोभां
वक्ष्यसि वोढासि । वहतेर्ऌट् ॥ "त्रिनयन - " इत्यत्र " पूर्वपदात्संज्ञा -
यामगः” इति णत्वं न भवति “ क्षुभ्नादिषु च " इति निषेधात् ॥ तस्याः
प्रभवमित्यादिना हिमाद्रौ मेघस्य वैवाहिको गृहविहारो ध्वन्यते ॥
तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा
बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः ।
अर्हस्येनं शमयितुमलं वारिधारासहस्रै-
रापन्नार्तिप्रशमनफला: संपदो ह्युत्तमानाम् ॥ ५३ ।।
तमिति ॥ वायौ वनवाते सरति वाति सति सरलानां देवदारु -
द्रुमाणां स्कन्धाः प्रदेशविशेषाः ॥ "अस्त्री प्रकाण्डः स्कन्धः स्यान्मू-
लाच्छाखावधेस्तरोः" इत्यमरः ॥ तेषां संघट्टनेन संघर्षणेन जन्म
यस्य स तथोक्तः ॥ जन्मोत्तरपदत्वाद्व्यधिकरणोऽपि बहुव्रीहिः साधु-
रित्युक्तम् ॥ उल्काभिः स्फुलिङ्गैः क्षपिता निर्दग्धाश्चमरीणां बाल-
भाराः केशसमूहा येन । दव एवाग्निर्दवाग्निर्वनवह्निः ॥ "वने च वन-
वह्नौ च दवो दाव इतीष्यते” इति यादवः ॥ तं हिमाद्रिं बाधेत चेत्पी-
डयेद्यदि । एनं दवाग्निं वारिधारासहस्रैः शमयितुमर्हसि ॥ युक्तं
चैतदित्याह – उत्तमानां महतां संपदः समृद्धय आपन्नानामार्तानामा-
र्तिप्रशमनमापन्निवारणमेव फलं प्रयोजनं यासां तास्तथोक्ता हि ।
अतो हिमाचलस्य दावानलस्त्वया शमयितव्य इति भावः ॥
ये [^1]संरम्भोत्पतनरभसाः [^2]स्वाङ्गभङ्गाय तस्मि-
[^3]न्मुक्ताध्वानं सपदि शरभा [^4]लङ्घयेयुर्भवन्तम् ।
तान्कुर्वीथास्तुमुलकरकावृष्टि[^5]पातावकीर्णा-
न्के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५४ ॥
[^1] त्वां मुक्तध्वनिमसहनाः [^2] कायभङ्गाय [^3] दर्पोत्सेकादुपरि . [^4] लङ्घ-
यिष्यन्त्यलङ्घ्यम्. [^5] हासा.