This page has been fully proofread once and needs a second look.

ति तद्वदिति भावः ॥ इदं च पुरा किल भगीरथप्रार्थनया भगवतीं
गगनपथात्पतन्तीं गङ्गां गङ्गाधरो जटाजूटेन जग्राहेति कथामुपजी-
व्योक्तम् ॥
 
तस्याः पातुं सुरगज इव व्योम्नि [^1]पश्चार्धलम्बी
त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ।
सं[^2]सर्पन्त्या सपदि भवतः स्रोतसि च्छायया[^3]सौ
स्यादस्थानो[^4]पगतयमुना[^5]सङ्गमेवाभिरामा ॥ ५१ ॥
 
तस्या इति ॥ सुरगज इव कश्चिदिग्गज इव व्योम्नि पश्चादर्धं पश्चा-
र्धम् । पश्चिमार्धमित्यर्थः ॥ पृषोदरादित्वात्साधुः ॥ तेन लम्बत इति पश्चा-
र्धलम्बी सन्पश्चार्धभागेन व्योम्नि स्थित्वा । पूर्वार्धेन जलोन्मुख इत्यर्थः ।
अच्छस्फटिकविशदं निर्मलस्फटिकावदातं तस्या गङ्गाया अम्भस्तिर्य-
क्तिरश्चीनं यथा तथा पातुं त्वं तर्कयेर्विचारयेश्चेत् । सपदि स्रोतसि
प्रवाहे संसर्पन्त्या संक्रामन्त्या भवतश्छायया प्रतिबिम्बेनासौ गङ्गा
अस्थाने प्रयागादन्यत्रोपगतः प्राप्तो यमुनासंगमो यया सा तथाभूतेवा-
भिरामा स्यात् ॥
 
आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां
तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ।
वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः
शोभां [^6]शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ।। ५२ ॥
 
आसीनानामिति ॥ आसीनानामुपविष्टानां मृगाणां कस्तूरिका-
मृगाणाम् ॥ अन्यथा नाभिगन्धानुपपत्तेः ॥ नाभिगन्धैः कस्तूरिगन्धै-
स्तेषां तदुद्भवत्वात् । अत एव मृगनाभिसंज्ञा च ॥ "मृगनाभिर्मू-
गमदः कस्तूरी च" इत्यमरः ॥ अथवा नाभयः कस्तूर्यः ॥ "नाभिः
प्रधाने कस्तूरीमदे च क्वचिदीरितः" इति विश्वः ॥ तासां गन्धैः सुरभिताः
सुरभीकृताः शिला यस्य तं तस्या गङ्गाया एव प्रभवत्यस्मादिति
प्रभवः कारणम् । तुषारैर्गौरं सितम् ॥ "अवदातः सितो गौरः"
 
[^1] पूर्वार्धलम्बी. [^2] संतर्प्यन्त्या. [^3] सा. [^4] उपनत. [^5] संगमेन, [^6] शुभ्राम्; रम्याम्.