This page has been fully proofread once and needs a second look.

हित्वेति ॥ बन्धुप्रीत्या कुरुपाण्डवस्नेहेन ॥ न तु भयेन । समरवि-
मुखो युद्धनिःस्पृहः । लाङ्गलमस्यास्तीति लाङ्गली हलधरः । अभिमतर-
सामभीष्टस्वादां तथा रेवत्याः स्वप्रियाया लोचने एवाङ्कः प्रतिबिम्बित-
त्वाच्चिह्नं यस्यास्तां हालां सुराम् ॥ “सुरा हलिप्रिया हाला" इत्य-
मरः ॥ “अभिप्रयुक्तं देशभाषापदमित्यत्र सूत्रे हालेति देश-
भाषापदमप्यतीव कविप्रयोगात्साधु" इत्युदाजहार वामनः ॥ हित्वा
त्यक्त्वा । दुस्त्यजामपीति भावः । याः । सारस्वतीरपः सिषेवे । हे
सौम्य सुभग, त्वं तासां सरस्वत्या नद्या इमाः सारस्वत्यस्तासामभिगमं
सेवां कृत्वान्तोऽन्तरात्मनि शुद्धो निर्मलो निर्दोषो भविता ॥ " ण्वु -
ल्तृचौ” इति तृच् ॥ अपि सद्य एव पूतो भविष्यसीत्यर्थः ॥
“वर्तमानसामीप्ये वर्तमानवद्वा" इति वर्तमानप्रत्ययः ॥ वर्णमात्रेण
वर्णेनैव कृष्णः श्यामः । न तु पापेनेत्यर्थः । अन्तःशुद्धिरेव संपाद्या
न तु बाह्या । बहि:शुद्धोऽपि सूतवधप्रायश्चित्तार्थं सारस्वतसलिल-
सेवी तत्र भगवान्बलभद्र एव निदर्शनम् । अतो भवतापि सरस्वती
सर्वथा सेवितव्येति भावः ॥
 
तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णां
जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।
गौरीवक्त्रभ्रुकुटिरचनां या विहस्ये[^1]व फेनैः
शंभो: केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५० ॥
 
तस्मादिति ॥ तस्मात्कुरुक्षेत्रात्कनखलस्याद्रेः समीपेऽनुकनखलम्
"अनुर्यत्समया" इत्यव्ययीभावः ॥ शैलराजाद्धिमवतोऽवतीर्णां स-
गरतनयानां स्वर्गसोपानपङ्क्तिम् । स्वर्गप्राप्तिसाधनभूतामित्यर्थः । जह्नो-
नाम राज्ञः कन्यां जाह्नवीं गच्छेर्गच्छ । विध्यर्थे लिङ् ॥ या जा-
ह्नवी गौर्या वक्त्रे या भ्रुकुटिरचना सापत्न्यरोषाद्भ्रूभङ्गकरणं तां फेनै-
र्विहस्यावहस्येव ॥ धावल्यात्फेनानां हासत्वेनोत्प्रेक्षा । इन्दौ शिरो-
माणिक्यभूते लग्ना ऊर्मय एव हस्ता यस्याः सेन्दुलग्नोर्मिहस्ता सती
शंभोः केशग्रहणमकरोत् । यथा काचित्प्रौढा नायिका सपत्नीमसह-
माना स्ववाल्लभ्यं प्रकटयन्ती स्वभर्तारं सह शिरोरत्नेन केशेष्वाकर्ष-
 
[^1] एव; उच्च