This page has been fully proofread once and needs a second look.

अनुसारिणो ये मधुकरास्तेषां श्रियं मुष्णन्तीति तथोक्तानाम् । क्षिप्य-
माणकुन्दानुविधायिमधुकरकल्पानामित्यर्थः । दशपुरं रन्तिदेवस्य न-
गरं तस्य वध्वः स्त्रियः ॥ " वधूर्जाया स्नुषा स्त्री च" इत्यमरः ॥
तासां नेत्रकौतूहलानां नेत्राभिलाषाणाम् । साभिलाषदृष्टीनामित्यर्थः ।
आत्मबिम्बं स्वमूर्तिं पात्रीकुर्वन्विषयीकुर्वन्व्रज गच्छ ॥
 
ब्रह्मावर्तं जनपद[^1]मथ च्छायया गाहमान:
क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः ।
राजन्यानां सितशरशतैर्यत्र गाण्डीवधन्वा
धारापातैस्त्वमिव कमला[^2]न्यभ्यवर्षन्मुखानि ॥ ४८ ॥
 
ब्रह्मावर्तमिति ॥ अथानन्तरं ब्रह्मावर्तं नाम जनपदं देशम् ॥ अत्र
मनुः – “सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मा-
वर्तं प्रचक्षते ॥” इति ॥ छाययानातपमण्डलेन गाहमानः प्रविशन्न
तु स्वरूपेण । “पीठक्षेत्राश्रमादीनि परिवृत्यान्यतो व्रजेत्" इति
वचनात् । क्षत्रप्रधनपिशुनम् । अद्यापि शिरःकपालादिमत्तया कुरुपा-
ण्डवयुद्धसूचकमित्यर्थः ॥ “युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्"
इत्यमरः ॥ तत्प्रसिद्धं कुरूणामिदं कौरवं क्षेत्रं भजेथाः । कुरुक्षेत्रं
व्रजेत्यर्थः । यत्र कुरुक्षेत्रे गाण्ड्यस्यास्तीति गाण्डीवं धनुर्विशेषः ॥
"गाण्ड्यजगात्संज्ञायाम्" इति मत्वर्थीयो वप्रत्ययः ॥ “कपि-
ध्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकौ " इत्यमरः ॥ तद्धनुर्यस्य स
गाण्डीवधन्वाऽर्जुनः ॥ " वा संज्ञायाम्" इत्यनङादेशः ॥ सितशर-
शतैर्निशितबाणसहस्रै राजन्यानां राज्ञां मुखानि धाराणामुदकधाराणां
पातैः कमलानि त्वमिवाभ्यवर्षदभिमुखं वृष्टवान् । शरवर्षेण शिरांसि
चिच्छेदेत्यर्थः ॥
 
[^3]हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां
बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे ।
कृत्वा तासा[^4]मभिगममपां सौम्य सारस्वतीना-
मन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ४९ ॥
 
[^1] अधः; अदुः. [^2] अभ्यषिञ्चत्. [^3] भूत्वा; कृत्वा; छित्त्वा. [^4] अधिगमम्