This page has been fully proofread once and needs a second look.

प्रेक्षिष्यन्ते गगनगतयो [^1]नूनमावर्ज्य दृष्टी-
रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ४६॥
 
त्वयीति ॥ शार्ङ्गिण: कृष्णस्य वर्णस्य कान्तेश्चौरे वर्णचौरे ।
तत्तुल्यवर्ण इत्यर्थः । त्वयि जलमादातुमवनते सति पृथुमपि दूरत्वात्तनुं
सूक्ष्मतया प्रतीयमानं तस्याः सिन्धोश्चर्मण्वत्याख्याया: प्रवाहम् । गगने
गतिर्येषां ते गगनगतयः खेचराः सिद्धगन्धर्वादयः ॥ अयमपि बहु-
व्रीहिः पूर्ववज्जन्माद्युत्तरपदेषु द्रष्टव्यः ॥ नूनं सत्यं दृष्टीरावर्ज्य
नियम्यैकमेकयष्टिकं स्थूलो महान्मध्यो मध्यमणीभूत इन्द्रनीलो यस्य
तं भुवो भूमेर्मुक्तागुणं मुक्ताहारमिव प्रेक्षिष्यन्ते ॥ अत्रात्यन्तनीलमेघ-
संगतस्य प्रवाहस्य भूकण्ठमुक्तागुणत्वेनोत्प्रेक्षणादुत्प्रेक्षैवेयमितीवशब्देन
व्यज्यते । निरुक्तकारस्तु “तत्र तत्रोपमा यत्र इवशब्दस्य दर्शनम्”
इतीवशब्ददर्शनादत्राप्युपमैवेति बभ्राम ॥
 
तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां
पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम् ।
कुन्दक्षेपानुगमधुकरश्री[^2]मुषामात्मबिम्बं
पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ ४७ ॥
 
तामिति ॥ तां चर्मण्वतीमुत्तीर्य भ्रुवो लता इव भ्रूलताः ॥ उपमि-
तसमासः ॥ तासां विभ्रमा विलासा: परिचिताः क्लृप्ता येषु तेषां
पक्ष्माणि नेत्रलोमानि ॥ “पक्ष्म सूत्रे च सूक्ष्मांशे किञ्जल्के नेत्रलो-
मनि” इति विश्वः ॥ तेषामुत्क्षेपादुन्नमनाद्धेतोः । कृष्णाश्च ताः
शाराश्च कृष्णशारा नीलशबला: ॥ " वर्णो वर्णेन" इति समासः ॥
“कृष्णरक्तसिताः शाराः” इति यादवः ॥ ततश्च शारशब्दादेव
सिद्धे कार्ष्ण्ये पुनः कृष्णपदोपादानं कार्ष्ण्यप्राधान्यार्थम् । रक्तत्वं
तु न विवक्षितमुपमानानुसारात्तस्य स्वाभाविकस्य स्त्रीनेत्रेषु सामुद्रिक -
विरोधादितरस्याप्रसङ्गात् । क्वचिद्भावकथनं तूपपत्तिविषयम् ॥ उपरि
विलसन्त्यः कृष्णशाराः प्रभा येषां तेषाम् । कुन्दानि माध्यकुसुमानि ॥
"माध्यं कुन्दम्" इत्यमरः ॥ तेषां क्षेप इतस्ततश्चलनं तस्यानुगा
 
[^1] दूरम्. [^2] युषाम्.