This page has been fully proofread once and needs a second look.

कुमारमुपास्स्वेति भावः ॥ " नर्तयेथा: " इत्यत्र “अणावकर्मकाच्चित्तव-
त्कर्तृकात्" इत्यात्मनेपदापवादः । “निगरणचलनार्थेभ्यश्च” इति
परस्मैपदं न भवति तस्य “न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिव-
दवसः" इति प्रतिषेधात् ॥
 
आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा
सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभि[^1]र्मुक्तमार्गः ।
व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्य-
न्स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ४५ ॥
 
आराध्येति ॥ एनं पूर्वोक्तं शरा बाणतृणानि ॥ “शरो बाणे
बाणतृणे" इति शब्दार्णवे ॥ तेषां वनं शरवणम् ॥ "प्रनिरन्तः-
शरे -" इत्यादिना णत्वम् ॥ तत्र भवो जन्म यस्य तं शरवणभ-
वम् ॥ “अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः" इति
वामनः । अवर्ज्योऽगतिकत्वादाश्रयणीय इत्यर्थः ॥ देवं स्कन्दम् ॥
“शरजन्मा षडाननः" इत्यमरः ॥ आराध्योपास्य वीणिभिर्वीणाव-
द्भिः ॥ व्रीह्यादित्वादिनिः ॥ सिद्धद्वन्द्वैः सिद्धमिथुनैः । भगवन्तं
स्कन्दमुपवीणयितुमागतैरिति भावः । जलकणभयात् । जलसेकस्य
वीणाक्वणनप्रतिबन्धकत्वादिति भावः । मुक्तमार्गस्त्यक्तवर्त्मा सन्नुल्ल-
ङ्घिताध्वा । कियन्तमध्वानं गत इत्यर्थः । सुरभितनयानां गवामालम्भेन
संज्ञपनेन जायत इति तथोक्ताम् । भुवि लोके स्रोतोमूर्त्या प्रवाहरू -
पेण परिणतां रूपविशेषमापन्नां रन्तिदेवस्य दशपुरपतेर्महाराजस्य
कीर्तिम् । चर्मण्वत्याख्यां नदीमित्यर्थः । मानयिष्यन्सत्कारयिष्य-
न्व्यालम्बेथाः । आलम्ब्यावतरेरित्यर्थः । पुरा किल राज्ञो रन्तिदेव-
स्य गवालम्भेष्वेकत्र संभृताद्रक्तनिष्यन्दाच्चर्मराशेः काचिन्नदी सस्यन्दे ।
सा चर्मण्वतीत्याख्यायत इति ॥
 
त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे
तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् ।
 
[^1] दत्तमार्गः, दत्तवर्त्मा.