This page has been fully proofread once and needs a second look.

स्येति वासव्यः ॥ " तस्येदम्" इत्यण् ॥ तासां वासवीनामैन्द्रीणां
चमूनां सेनानां रक्षाहेतो रक्षायाः कारणेन । रक्षार्थमित्यर्थः ॥ “षष्ठी
हेतुप्रयोगे” इति षष्ठी । नवशशिभृता भगवता चन्द्रशेखरेण ।
वहतीति वहः ॥ पचाद्यच् ॥ हुतस्य वहो हुतवहो वह्निस्तस्य मुखे
संभृतं संचितम् । आदित्यमतिक्रान्तमत्यादित्यम् ॥ " अत्यादयः
क्रान्ताद्यर्थे द्वितीयया" इति समासः ॥ तेजो हि साक्षाद्भगवतो
हरस्यैव मूर्त्यन्तरमित्यर्थः । अतः पूज्यमिति भावः । मुखग्रहणं तु
शुद्धत्वसूचनार्थम् । तदुक्तं शंभुरहस्ये – “गवां पश्चाद्द्विजस्याङ्घ्रिर्योगिनां
हृत्कवेर्वचः । परं शुचितमं विद्यान्मुखं स्त्रीवह्निवाजिनाम् ॥” इति ॥
 
ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी
पुत्र[^1]प्रेम्णा कुवलय[^2]दलप्रापि कर्णे करोति ।
धौतापाङ्गं हरशशिरुचा [^3]पावकेस्तं मयूरं
पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ ४४ ॥
 
ज्योतिरिति ॥ ज्योतिषस्तेजसो लेखा राजयस्तासां वलयं मण्डलं
यस्यास्तीति तथोक्तम् । गलितं भ्रष्टम् । न तु लौल्यात्स्वयं छिन्नमिति
भावः । यस्य मयूरस्य बर्हं पिच्छम् । “पिच्छबर्हे नपुंसके" इत्य-
मरः ॥ भवानी गौरी । पुत्रप्रेम्णा पुत्रस्नेहेन कुवलयस्य दलं पत्रं
तत्प्रापि तद्योगि यथा तथा कर्णे करोति । दलेन सह धारयतीत्यर्थः ।
यद्वा कुवलयस्य दलप्रापि दलभाजि दलार्हे कर्णे करोति ॥ क्विब-
न्तात्सप्तमी ॥ दलं परिहृत्य तत्स्थाने बर्हं धत्त इत्यर्थः ॥ नाथस्तु
"कुवलयदलक्षेपि" इति पाठमनुसृत्य "क्षेपो निन्दापसारणं वा "
इति व्याख्यातवान् ॥ हरशशिरुचा हरशिरश्चन्द्रिकया धौतापाङ्गं
स्वतोऽपि शौक्ल्यादतिधवलितनेत्रान्तम् ॥ “अपाङ्गौ नेत्रयोरन्तौ”
इत्यमरः ॥ पावकस्याग्नेरपत्यं पावकिः स्कन्दः ॥ “अत इञ्” इति
इञ् ॥ तस्य तं पूर्वोक्तं मयूरं पश्चात्पुष्पाभिषेचनानन्तरमद्रेर्देव-
गिरेः कर्तुः ॥ ग्रहणेन गुहासंक्रमणेन गुरुभिः । प्रतिध्वानमहद्भि-
रित्यर्थः । गर्जितैर्नर्तयेथा नृत्यं कारय । मार्दङ्गिकभावेन भगवन्तं
 
[^1] प्रीत्या. [^2] पद. [^3] आप्याययेः.