2022-09-22 04:40:49 by suhasm
This page has been fully proofread once and needs a second look.
इत्यमरः ॥ स्रोतोरन्ध्रेषु नासाग्रकुहरेषु यद्ध्वनितं शब्दस्तेन सुभगं
यथा तथा दन्तिभिर्गजैः पीयमानः । वसुधागन्धलोभादाघ्रायमाण
इत्यर्थः । अनेन मान्द्यमुच्यते । काननेषु वनेषूदुम्बराणां जन्तुफलानाम्
"उदुम्बरोजन्तुफलो यज्ञाङ्गो हेमदुग्धकः" इत्यमरः ॥ परिणम-
यिता परिपाकयिता ॥ " मितां ह्रस्वः" इति ह्रस्वः ॥ शीतो वायुः ।
देवपूर्वं देवशब्दपूर्वं गिरिम् । देवगिरिमित्यर्थः । उपजिगमिषोरुपगन्तु-
मिच्छोः ॥ गमेः सन्नन्तादुप्रत्ययः ॥ ते तव नीचैः शनैर्वास्यति ।
त्वां वीजयिष्यतीत्यर्थः ॥ संबन्धमात्रविवक्षायां षष्ठी । "देवपूर्वं गिरि-
म्" इत्यत्र देवपूर्वत्वं गिरिशब्दस्य न तु संज्ञिनस्तदर्थस्येति संज्ञायाः
संज्ञित्वाभावादवाच्यवचनं दोषमाहुरालंकारिकाः । तदुक्तमेकावल्या-
म् – “यदवाच्यस्य वचनमवाच्यवचनं हि तत्" इति ॥ समाधानं
तु देवशब्दविशेषितेन गिरिशब्देन शब्दपरेण मेघोपगमनयोग्यो देव-
गिरिर्लक्ष्यत इति कथंचित्संपाद्यम् ॥
तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा
पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलार्द्रैः ।
रक्षाहेतोर्नवशशिभृता वासवीनां [^1]चमूना-
मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ ४३ ॥
तत्रेति ॥ तत्र देवगिरौ नियता वसतिर्यस्य तम् । नित्यसंनिहित-
मित्यर्थः ॥ पुरा किल तारकाख्यासुरविजयसंतुष्टः सुरप्रार्थनावशाद्भ-
गवान्भवानीनन्दनः स्कन्दो नित्यमहमिह सह शिवाभ्यां वसामीत्यु-
क्त्वा तत्र वसतीति प्रसिद्धिः ॥ स्कन्दं कुमारं स्वामिनम् । पुष्पाणां
मेघः पुष्पमेधः । पुष्पमेघीकृतात्मा कामरूपत्वात्पुष्पवर्षुकमेघीकृतवि-
ग्रहः सन्व्योमगङ्गाजलार्द्रैः । पुष्पासारैः पुष्पसंपातैः ॥ "धारासंपात
आसारः" इत्यमरः ॥ भवान्स्वयमेव स्नपयत्वभिषिञ्चतु । स्वयंपूजा-
या उत्तमत्वादिति भावः ॥ तथा च शंभुरहस्ये – “स्वयं यजति
चेद्देवमुत्तमा सोदरात्मजैः । मध्यमा या यजेद्भृत्यैरधमा याजनक्रिया ॥"
इति । स्कन्दस्य पूज्यत्वसमर्थनेनार्थेनार्थान्तरं न्यस्यति – रक्षेति ॥
तत् भगवान् स्कन्द इत्यर्थः । विधेयप्राधान्यान्नपुंसकनिर्देशः ॥ वासव-
[^1] वसूनाम्.