2022-09-22 04:40:36 by suhasm
This page has been fully proofread once and needs a second look.
नानि ॥ " त्रिषु स्याच्चटुलं शीघ्रम्" इति विश्वः ॥ एतावदेव गम्भीराया
अनुरागलिङ्गम् । धैर्याद्धार्ष्ट्यात् । वैयात्यादिति यावत् । मोघीकर्तुं
विफलीकर्तं नार्हसि । नानुरक्ता विप्रलब्धव्येत्यर्थः ॥ धूर्तलक्षणं तु -
'क्लिश्नाति नित्यं गमितां कामिनीमिति सुन्दरः । उपैत्यरक्तां यत्नेन
रक्तां धूर्तो विमुञ्चति ॥” इति ॥
तस्याः किंचित्करधृतमिव प्राप्तावानीरशाखं
[^1]नीत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादो [^2]विवृतजघनां को विहातुं समर्थः ॥ ४१ ॥
तस्या इति ॥ हे सखे, प्राप्ता वानीरशाखा वेतसशाखा येन तत्तथो-
क्तमत एव किंचिदीषत्करधृतं हस्तावलम्बितमिव स्थितम् । मुक्तस्त्यक्तो
रोधस्तटमेव नितम्बः कटिर्येन तत्तथोक्तम् ॥ " नितम्बः पश्चिमे
श्रोणिभागेऽद्रिकटके कटौ" इति यादवः ॥ नीलं कृष्णवर्णं तस्या गम्भी-
रायाः सलिलमेव वसनं नीत्वापनीय ॥ प्रस्थानसमये प्रेयसीवसनग्रहणं
विरहतापविनोदनार्थमिति प्रसिद्धम् ॥ लम्बमानस्य पीतसलिलभराल्ल-
म्बमानस्य । अन्यत्र जघनारूढस्य । ते तव प्रस्थानं प्रयाणं कथमपि
कृच्छ्रेण भावि ॥ कृच्छ्रत्वे हेतुमाह - ज्ञातेति ॥ ज्ञातास्वादोऽनुभूतरसः
कः पुमान्विवृतं प्रकटीकृतं जघनं कटिस्तत्पूर्वभागो वा यस्यास्ताम् ॥
" जघनं स्यात्कटौ पूर्वश्रोणिभागापरांशयोः" इति यादवः ॥ विहातुं
त्यक्तुं समर्थः । न कोऽपीत्यर्थः ॥
त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्क[^3]रम्यः
स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः ।
नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते
शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ ४२ ॥
त्वदिति ॥ त्वन्निष्यन्देन तव वृष्ट्योच्छ्वसिताया उपबृंहिताया
वसुधाया भूमेर्गन्धस्य संपर्केण रम्यः । सुरभिरित्यर्थः ॥ स्रोतःशब्दे-
नेन्द्रियवाचिना तद्विशेषो घ्राणं लक्ष्यते ॥ “स्रोतोऽम्बुवेगेन्द्रिययो: "
[^1] हृत्वा. [^2] पुलिनजघनाम् [^3] पुण्यः.