2022-09-22 04:40:21 by suhasm
This page has been fully proofread once and needs a second look.
तस्मिन्निति ॥ तस्मिन्काले पूर्वोक्ते सूर्योदयकाले प्रणयिभिः प्रिय-
तमैः खण्डितानां योषितां नायिकाविशेषाणाम् । "ज्ञातेऽन्यासङ्ग-
विकृते खण्डितेर्ष्याकषायिता" इति दशरूपके ॥ नयनसलिलं
शान्तिं नेयं नेतव्यम् ॥ नयतिर्द्विकर्मकः ॥ अतो हेतोर्भानोर्वर्त्माशु शीघ्रं
त्यज । तस्यावरको मा भूरित्यर्थः ॥ विपक्षेऽनिष्टमाचष्टे सोऽपि
भानुः । नलान्यम्बुजानि यस्याः सन्तीति नलिनी पद्मिनी ॥ "तृणे-
ऽम्बुजे नलं ना तु राज्ञि नाले तु न स्त्रियाम्" इति शब्दार्णवे ॥ तस्याः
स्वकान्तायाः कमलं स्वकुसुममेव वदनं तस्मात्प्रालेयं हिममेवास्रमश्रु
हर्तुं शमयितुं प्रत्यावृत्तः प्रत्यागतः । नलिन्याश्च भर्तुर्भानोर्देशान्तरे
नलिन्यन्तरगमनात्खण्डितात्वमित्याशयः । ततस्त्वयि । करानंशून्रुण-
द्धीति कररुत् । क्विप् । तस्मिन्कररुधि सति । हस्तरोधिनि सतीति
च गम्यते ॥ “बलिहस्तांशवः करा:" इत्यमरः ॥ अनल्पाभ्यसूयो
ऽधिकविद्वेषः स्यात् । प्रायेणेच्छाविशेषविघाताद्वेषो रोषविशेषश्च
कामिनां भवतीति भावः । किंच "आत्मानं चार्कमीशानं विष्णुं वा
द्वेष्टि यो जनः । श्रेयांसि तस्य नश्यन्ति रौरवं च भवेद्ध्रुवम् ॥” इति
निषेधात्कार्यहानिर्भविष्यतीति ध्वनिः ॥
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने
छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।
तस्मा[^1]दस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या-
न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ ४० ॥
गम्भीराया इति ॥ गम्भीरा नाम सरित् ॥ उदात्तनायिका च
ध्वन्यते ॥ तस्याः प्रसन्नेऽनुरक्तत्वाद्दोषरहिते चेतसीव प्रसन्नेऽतिनिर्मले
पयसि । प्रकृत्या स्वभावेनैव सुभगः सुन्दरः ॥ " सुन्दरेऽधिकभाग्ये च
दुर्दिनेतरवासरे। तुरीयांशे श्रीमति च सुभगः" इति शब्दार्णवे ॥ ते तव
छाया चासावात्मा च । सोऽपि प्रतिबिम्बशरीरं च प्रवेशं लप्स्यते ।
अपिशब्दात्प्रवेशमनिच्छोरपीति भावः । तस्माच्छायाद्वारापि प्रवेशा-
वश्यंभावित्वादस्या गम्भीरायाः । कुमुदवद्विशदानि धवलानि चटुलानि
शीघ्राणि शफराणां मीनानामुद्वर्तनान्युल्लुण्ठनान्येव प्रेक्षितान्यवलोक-
[^1] तस्याः