2022-09-22 04:39:39 by suhasm
This page has been fully proofread once and needs a second look.
पादन्यासैरिति ॥ तत्र संध्याकाले ॥ पादन्यासैश्चरणनिक्षेपैर्नृत्याङ्गैः
क्वणिताः शब्दायमाना रशना यासां तास्तथोक्ताः ॥ क्वणतेरकर्मक-
त्वात् “गत्यर्थाकर्मक- " इत्यादिना कर्तरि क्तः ॥ लीलया विला-
सेनावधूतैः कम्पितैः रत्नानां कङ्कणमणीनां छायया कान्त्या खचिता
रूषिता वलयश्चामरदण्डा येषां तैः ॥ "वलिश्चामरदण्डे च जराविश्ल-
थचर्मणि" इति विश्वः ॥ चामरैर्वालव्यजनैः क्लान्तहस्ताः ॥ एतेन
दैशिकं नृत्यं सूचितम् । तदुक्तं नृत्यसर्वस्वे – “खङ्गकन्दुकवस्त्रादिद-
ण्डिकाचामरस्रजः । वीणां च धृत्वा यत्कुर्युर्नृत्यं तद्देशिकं भवेत् ॥”
इति ॥ वेश्या महाकालनाथमुपेत्य नृत्यन्त्यो गणिकास्त्वत्तो नखपदेषु
नखक्षतेषु सुखान्सुखकरान् ॥ "सुखहेतौ सुखे सुखम्" इति शब्दा-
र्णवे । वर्षस्याग्रबिन्दून्प्रथमबिन्दून्प्राप्य त्वयि मधुकरश्रेणिदीर्घान्कटा-
क्षानपाङ्गानामोक्ष्यन्ते । “परैरुपकृताः सन्तः सद्यः प्रत्युपकुर्वते'
इति भावः । कामिनीदर्शनीयत्वलक्षणं शिवोपासनाफलं सद्यो लप्स्यस
इति ध्वनिः ॥
पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः
सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।
[^1]नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ३६ ॥
पश्चादिति ॥ पश्चात्संध्याबल्यनन्तरं पशुपतेः शिवस्य नृत्यारम्भे
ताण्डवप्रारम्भे प्रतिनवजपापुष्परक्तं प्रत्यग्रजपाकुसुमारुणं संध्यायां
भवं सान्ध्यं तेजो दधानः । उच्चैरुन्नतं भुजा एव तरवस्तेषां वनं
मण्डलेन मण्डलाकारेणाभिलीनोऽभिव्याप्तः सन् ॥ कर्तरि क्तः ॥ भ-
वान्या भवपत्न्या ॥ "इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातु-
लाचार्याणामानुक्" इति ङीष् । आनुगागमश्च ॥ शान्त उद्वेगो गजा-
जिनदर्शनभयं ययोस्ते अत एव स्तिमिते निश्चले नयने यस्मिन्क-
र्मणि तत्तथोक्तम् ॥ “उद्वेगस्त्वरिते क्लेशे भये मन्थरगामिनि" इति
शब्दार्णवे ॥ भक्तिः पूज्येष्वनुरागः ॥ भावार्थे क्तिन्प्रत्ययः ॥ दृष्टा
भक्तिर्यस्य स दृष्टभक्तिः सन् । पशुपतेरार्द्रं शोणितार्द्रं यन्नागाजिनं ग-
[^1] नृत्तारम्मे.