This page has been fully proofread once and needs a second look.

प्नुयात् ॥” इति ॥ न केवलं मुक्तिस्थानमिदं किंतु विलासस्थानमपीत्या-
ह — धूतेति ॥ कुवलयरजोगन्धिभिरुत्पलपरागगन्धवद्भिस्तोयक्रीडासु
निरतानामासक्तानां युवतीनां स्नानं स्नानीयं चन्दनादि ॥ करणे ल्युट् ॥
"स्नानीयेऽभिषवे स्नानम्” इति यादवः ॥ तेन तिक्तैः सुरभिभिः ॥
"कटुतिक्तकषायास्तु सौरभे च प्रकीर्तिताः" इति हलायुधः ॥ सौगन्ध्या-
तिशयार्थं विशेषणद्वयम् । गन्धवत्या नाम नद्यास्तत्रत्याया मरुद्भिर्मारु-
तैर्धूतोद्यानं कम्पिताक्रीडमिति धाम्नो विशेषणम् ॥
 
अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले
स्थातव्यं ते नयनविषयं [^1]यावदत्येति भानुः ।
कुर्वन्संध्याबलिपटहतां शूलिनः श्लाघनीया-
[^2]मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ३४ ॥
 
अपीति ॥ युग्मम् ॥ हे जलधर, महाकालं नाम पूर्वोक्तं चण्डीश्व-
रस्थानमन्यस्मिन्सन्ध्यातिरिक्तेऽपि काल आसाद्य प्राप्य ते तव स्थातव्यं
त्वया स्थातव्यमित्यर्थः ॥ " कृत्यानां कर्तरि वा” इति षष्ठी ॥
यावद्यावता कालेन भानुः सूर्यो नयनविषयं दृष्टिपथमत्येत्यतिक्रामति ।
अस्तमयकालपर्यन्तं स्थातव्यमित्यर्थः ॥ यावदित्येतदवधारणार्थे ।
" यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे" इत्यमरः ॥ किमर्थमत
आह — कुर्वन्निति ॥ श्लाघनीयां प्रशस्यां शूलिनः शिवस्य संध्यायां
बलि: पूजा तत्र पटहतां कुर्वन्संपादयन्नामन्द्राणामीषद्गम्भीराणां गर्जिता-
नामविकलमखण्डं फलं लप्स्यसे प्राप्स्यसि ॥ लभेः कर्तरि लृट् ॥ महा-
कालनाथबलिपटहत्वेन विनियोगात्ते गर्जितसाफल्यं स्यादित्यर्थः ॥
 
[^3]पादन्यासै: कणितरशनास्तत्र लीलावधूतै
रत्नच्छा[^4]याखचितवलिभिश्चामरै: [^5]क्लान्तहस्ताः ।
वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दू-
नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥ ३५ ॥
 
[^1] अभ्येति. [^2] आमन्त्राणाम्; आमर्द्राणाम् [^3] पादन्यास [^4] रचित.
[^5] कान्त.