This page has been fully proofread once and needs a second look.

हर्म्येष्वस्याः कुसुमसुरभि[^1]ष्वध्वखेदं नयेथा
[^2]लक्ष्मीं पश्यंल्ललितवनितापादरागाङ्कितेषु ॥ ३२ ॥
 
जालोद्गीर्णैरिति ॥ जालोद्गीर्णैर्गवाक्षमार्गनिर्गतैः ॥ “जालं गवाक्ष
आनाये जालके कपटे गणे" इति यादवः ॥ केशसंस्कारधूपैः । वनि-
ताकेशवासनार्थैर्गन्धद्रव्यधूपैरित्यर्थः ॥ अत्र संस्कारधूपयोस्तादर्थ्येऽपि
यूपदार्वादिवत्प्रकृतिविकारत्वाभावादश्वघासादिवत्षष्ठीसमासो न चतुर्थी -
समासः ॥ उपचितवपुः परिपुष्टशरीरः । बन्धौ बन्धुरिति वा प्रीत्या
भवनशिखिभिर्गृहमयूरैर्दत्तो नृत्यमेवोपहार उपायनं यस्मै स तथोक्तः ॥
“उपायनमुपग्राह्यमुपहारस्तथोपदा" इत्यमरः ॥ कुसुमैः सुरभिषु सुग-
न्धिषु ॥ ललितवनिताः सुन्दरस्त्रियः ॥ "ललितं त्रिषु सुन्दरम्" इति
शब्दार्णवे ॥ तासां पादरागेण लाक्षारसेनाङ्कितेषु चिह्नितेषु हर्म्येषु
धनिकभवनेष्वस्या उज्जयिन्या लक्ष्मीं पश्यन्नध्वनाध्वगमनेन खेदं क्लेशं
नयेथा अपनय ॥
 
भर्तुः कण्ठच्छविरिति गणै: सादरं [^3]वीक्ष्यमाण:
पुण्यं यायास्त्रिभुवनगुरोर्धाम [^4]चण्डीश्वरस्य ।
धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या-
स्तोयक्रीडा[^5]निरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ३३ ॥
 
भर्तुरिति ॥ भर्तुः स्वामिनो नीलकण्ठस्य भगवतः कण्ठस्येव छ -
विर्यस्यासौ कण्ठच्छविरिति हेतोर्गणैः प्रमथैः ॥ 'गणस्तु गणनायां
स्याद्गणेशे प्रमथे चये" इति शब्दार्णवे ॥ सादरं यथा तथा वीक्ष्य-
माणः सन् । प्रियवस्तुसादृश्यादतिप्रियत्वं भवेदिति भावः । त्रयाणां
भुवनानां समाहारस्त्रिभुवनम् ॥ " तद्धितार्थ - " इत्यादिना समासः ॥
तस्य गुरोस्त्रैलोक्यनाथस्य चण्डीश्वरस्य कात्यायनीवल्लभस्य पुण्यं
पावनं धाम महाकालाख्यं स्थानं याया गच्छ ॥ विध्यर्थे लिङ् ॥ श्रे-
यस्करत्वात्सर्वथा यातव्यमिति भावः ॥ उक्तं च स्कान्दे – “आकाशे
तारकं लिङ्गं पाताले हाटकेश्वरम् । मर्त्यलोके महाकालं दृष्ट्वा काममवा-
 
[^1] अध्वखिन्नान्तरात्मा. [^2] मुक्त्वा खेदम्, त्यक्त्वा खेदम्; रात्रिं नीत्वा-
[^3] दृश्यमानः [^4] चण्डेश्वरस्य. [^5] विरत.