This page has been fully proofread once and needs a second look.

प्रद्योतस्येति ॥ अत्र प्रदेशे वत्सराजो वत्सदेशाधीश्वर उदयनः ।
प्रद्योतस्य नामोज्जयिनीनायकस्य राज्ञः प्रियदुहितरं वासवदत्तां जह्रे
जहार । अत्र स्थले तस्यैव राज्ञः प्रद्योतस्य हैमं सौवर्णं तालद्रु-
मवनमभूत् । अत्र नलगिरिर्नामेन्द्रदत्तस्तदीयो गजो दर्पान्मदात्स्त-
म्भमालानमुत्पाट्योद्धृत्योद्भ्रान्त उत्पत्य भ्रमणं कृतवान् । इतीत्थंभूता-
भिः कथाभिरित्यर्थः । अभिज्ञः पूर्वोक्तकथाभिज्ञः कोविदो जन आ-
गन्तून्देशान्तरादागतान् ॥ औणादिकस्तुन्प्रत्ययः ॥ बन्धून्यत्र विशा-
लायां रमयति विनोदयति ॥ अत्र भाविकालंकारः । तदुक्तम् – "अ-
तीतानागते यत्र प्रत्यक्षत्वेन लक्षिते । अत्यद्भुतार्थकथनाद्भाविकं तदु-
दाहृतम् ॥” इति ॥
 
पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः
शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात् ।
योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः
प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कैः ॥
 
पत्रेति ॥ हे जलद, यत्र विशालायां वाहा हयाः पत्रश्यामाः
पलाशवर्णा अत एव दिनकरहयस्पार्घिनो वर्णतो वेगतश्च सूर्याश्वकल्पा-
स्तथा शैलोदग्राः शैलवदुन्नता: करिणः प्रभेदान्मदस्रावाद्धेतोस्त्व-
मिव वृष्टिमन्तः । अग्रं नयन्तीत्यग्रण्यः ॥ "सत्सूद्विष - " इत्यादिना
क्विपू ॥ “अग्रग्रामाभ्यां नयतेः” इति वक्तव्याण्णत्वम् ॥ योधाना-
मग्रण्यो भटश्रेष्ठाः संयुगे युद्धे प्रतिदशमुखमभिरावणं तस्थिवांसः स्थि-
तवन्तः। अत एव चन्द्रहासस्य रावणासेर्व्रणानि क्षतान्येवाङ्काश्चिह्नानि तैः ॥
"चन्द्रहासौ रावणासावसिमात्रेऽपि च क्वचित्” इति शाश्वतः ॥ प्र-
त्यादिष्टाभरणरुचयः प्रतिषिद्धभूषणकान्ताः । शस्त्रप्रहारा एव वीराणां
भूषणमिति भावः ॥ अत्रापि भाविकालंकारः ॥
 
जालोद्गीर्णैरुपचितवपुः केशसंस्कार[^1]धूपै-
र्बन्धुप्रीत्या भवनशिखिभिर्दत्तनृ[^2]त्योपहारः ।
 
[^1] धूमैः. [^2] नृत्तोपचारः.