2022-09-19 14:23:57 by suhasm
This page has been fully proofread once and needs a second look.
स्त्रीणां सुरतग्लानिं संभोगखेदं हरति नुदति । चाटूक्तिभिर्विस्मृतपूर्वरति-
खेदाः स्त्रियः प्रियतमप्रार्थनां सफलयन्तीति भावः ॥ " प्रार्थनाचाटु-
कार: " इत्यत्र "खण्डितनायिकानुनीता" इति व्याख्याने सुरतग्ला-
निहरणं न संभवति । तस्याः पूर्वं सुरताभावात्पश्चात्तनसुरतग्लानिहरणं
तु नेदानीन्तनकोपशमनार्थचाटुवचनसाध्यमित्युत्प्रेक्षैवोचिता विवेकि-
नाम् ॥ "ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता" इति दश-
रूपके ॥
इतः परं प्रक्षिप्तमपि लोकत्रयं व्याख्यायते –
हारांस्तारांस्तरलगुटिकान्कोटिशः शङ्खशुक्तीः
शष्पश्यामान्मरकतमणीनुन्मयूखप्ररोहान् ।
दृष्ट्वा यस्यां विपणिरचिताविद्रुमाणां च भङ्गा-
न्संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥
हारानिति ॥ यस्यां विशालायां कोटिशो विपणिषु पण्यवीथिकासु ॥
“विपणिः पण्यवीथिका" इत्यमरः ॥ रचितान्प्रसारितान् ॥ इदं वि-
शेषणं यथालिङ्गं सर्वत्र संबध्यते । ताराञ्छुद्धान् ॥ "तारो मुक्ता-
दिसंशुद्धौ तरणे शुद्धमौक्तिके” इति विश्वः ॥ तरलगुटिकान्मध्यमणी-
भूतमहारत्नान् ॥ “तरलो हारमध्यगः" इत्यमरः ॥ “पिण्डे मणौ
महारत्ने गुटिका बद्धपारदे" इति शब्दार्णवे । हारान्मुक्तावलीः ।
तथा कोटिशः शङ्खांश्च शुक्तीश्च मुक्तास्फोटांश्च ॥ "मुक्तास्फोट:
स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियाम्" इत्यमरः ॥ शष्पं बालतृणं
तद्वच्छ्यामान् ॥ "शष्पं बालतृणं घासो यवसं तृणमर्जुनम्" इत्य-
मरः ॥ उन्मयूखप्ररोहानुद्गतरम्याङ्कुरान्मरकतमणीन्गारुडरत्नानि । तथा
विद्रुमाणां भङ्गान्प्रवालखण्डांश्च दृष्ट्वा सलिलनिधयः समुद्रास्तोयमात्र-
मवशेषो येषां ते तादृशाः संलक्ष्यन्ते । तथानुमीयन्त इत्यर्थः । रत्ना-
करादप्यतिरिच्यते रत्नसंपद्भिरिति भावः ॥
प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे
हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः ।
अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा-
दित्यागन्तून्रमयति जनो यत्र बन्धूनभिज्ञः ॥