This page has been fully proofread once and needs a second look.

भूलोकगतानामित्यर्थः । स्वर्गिणां स्वर्गवतां जनानां शेषैर्भुक्तशिष्टैः पुण्यैः
सुकृतैर्हृतमानीतम् । स्वर्गार्थानुष्ठितकर्मशेषाणां स्वर्गदानावश्यंभावादिति
भावः । कान्तिरस्यास्तीति कान्तिमदुज्ज्वलम् । सारभूतमित्यर्थः । एकं
भुक्तादन्यत् ॥ "एके मुख्यान्यकेवला:" इत्यमरः ॥ दिवः स्वर्गस्य
खण्डमिव स्थितामित्युत्प्रेक्षा । एतेनातिक्रान्तसकलभूलोकनगरसौभाग्या-
सारत्वमुज्जयिन्या व्यज्यते ॥
 
दीर्घीकुर्वन्पटु मदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूल:
शिप्रावातः प्रियतम इव प्रार्थनाचाटुकार: ॥ ३१ ॥
 
दीर्घीकुर्वन्निति ॥ यत्र विशालायां प्रत्यूषेष्वहर्मुखेषु ॥ “प्रत्यूषो-
ऽहर्मुखं कल्यम्” इत्यमरः ॥ पटु प्रस्फुटम् । मदकलं मदेनाव्यक्तम-
धुरम् ॥ "ध्वनौ तु मधुरास्फुटे । कलः" इत्यमरः । सारसानां पक्षि-
विशेष।णाम् ॥ “सारसो मैथुनी कामी गोनर्द: पुष्कराह्वयः" इति
यादवः ॥ यद्वा सारसानां हंसानाम् ॥ “चक्राङ्गः सारसो हंस : "
इति शब्दार्णवे ॥ कूजितं रुतं दीर्घीकुर्वन् । विस्तारयन्नित्यर्थः । या-
वद्वातं शब्दावृत्तेरिति भावः । एतेन प्रियतमः स्वचाटुवाक्यानुसारि-
क्रीडापक्षिकूजितमविच्छिन्नीकुर्वन्निति च गम्यते । स्फुटितानां विकसि -
तानां कमलानामामोदेन परिमलेन सह या मैत्री संसर्गस्तेन कषायः
सुरभिः ॥ " रागद्रव्ये कषायोऽस्त्री निर्यासे सौरभे रसे" इति या-
दवः ॥ अन्यत्र विमर्दगन्धीत्यर्थः ॥ " विमर्दोत्थे परिमलो गन्धे जन-
मनोहरे । आमोदः सोऽतिनिर्हारी" इत्यमरः ॥ अङ्गानुकूलो गात्र-
सुखस्पर्शः । अन्यत्र गाढालिङ्गनदत्तगात्रसंवाहन इत्यर्थः । भवभूतिना
चोक्तम् – “अशिथिलपरिरम्भैर्दत्तसंवाहनानि" इति ॥ संवाह्यन्ते च
सुरतश्रान्ताः प्रियैर्युवतयः । एतत्कविरेव वक्ष्यति – “संभोगान्ते मम
समुचितो हस्तसंवाहनानाम्” इति ॥ शिप्रा नाम काचित्तत्रत्या
नदी तस्या वातः शिप्रावातः ॥ शिप्राग्रहणं शैत्यद्योतनार्थम् ॥ प्रा-
र्थना सुरतस्य याच्ञा तत्र चाटु करोतीति तथोक्तः । पुनः सुरतार्थं
प्रियवचनप्रयोक्तेत्यर्थः ॥ कर्मण्यण्प्रत्ययः ॥ प्रियतमो वल्लभ इव