2022-09-19 14:23:13 by suhasm
This page has been fully proofread once and needs a second look.
अत एव हे सुभग, विरहावस्थाया पूर्वोक्तप्रकारया करणेन ॥ अ-
तीतस्यैतावन्तं कालमतीत्य गतस्य प्रोषितस्येत्यर्थः । ते तव सौभाग्यं
सुभगत्वम् ॥ " हृद्भगसिन्ध्वन्ते पूर्वपदस्य च" इत्युभयपदवृद्धिः ॥
व्यञ्जयन्ती प्रकाशयन्ती । स खलु सुभगो यमङ्गनाः कामयन्त इति
भावः । असौ पूर्वोक्ता सिन्धुर्नदी निर्विन्ध्या ॥ " स्त्री नद्यां ना नदे
सिन्धुर्देशभेदेऽम्बुधौ गजे" इति वैजयन्ती ॥ येन विधिना व्यापारेण
कार्श्यं त्यजति स विधिस्त्वयैवोपपाद्यः । कर्तव्य इत्यर्थः । स च वि-
धिरेकत्र वृष्टिरन्यत्र संभोगस्तदभावनिबन्धनत्वात्कार्श्यस्येति भावः ॥
इयं पञ्चमी मदनावस्था । तदुक्तं रतिरहस्ये – “नयनप्रीतिः प्रथमं चि-
त्तासङ्गस्ततोऽथ संकल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ॥
उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्युः ॥” इति ॥ “ताम-
तीतस्य " इति पाठमाश्रित्य सिन्धुर्नाम नद्यन्तरमिति व्याख्यातम् ।
किंतु सिन्धुर्नाम कश्चिन्नदः काश्मीरदेशेऽस्ति । नदी तु कुत्रापि नास्ती -
त्यपेक्ष्यमित्याचक्षते ॥
प्राप्याव[^1]न्तीनुदयनकथाकोविद[^2]ग्रामवृद्धा-
न्पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् ।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां
शेषै: पुण्यैर्हतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ३० ॥
प्राप्येति ॥ विदन्तीति विदाः ॥ इगुपधलक्षणः कः ॥ ओकसो
वेद्यस्थानस्य विदाः कोविदाः ॥ ओकारलुप्ते पृषोदरादित्वात्साधुः ॥
उदयनस्य वत्सराजस्य कथानां वासवदत्ताहरणाद्यद्भुतोपाख्यानानां
कोविदास्तत्त्वज्ञा ग्रामेषु ये वृद्धास्ते सन्ति येषु तानवन्तींस्तन्नाम ज-
नपदान्प्राप्य तत्र पूर्वोद्दिष्टां पूर्वोक्तां “सौधोत्सङ्गप्रणयविमुखो मा स्म
भूरुज्जयिन्याः" इत्युक्तां श्रीविशालां संपत्तिमतीम् ॥ " शोभासं-
पत्तिपद्मासु लक्ष्मीः श्रीरिव दृश्यते” इति शाश्वतः ॥ विशालां
पुरीमुज्जयिनीमनुसर व्रज ॥ कथमिव स्थितान् । सुचरितफले पुण्य-
फले स्वर्गोपभोगलक्षणे स्वल्पीभूते । अत्यल्पावशिष्टे सतीत्यर्थः । गां
भूमिं गतानाम् ॥ "गौरिला कुम्भिनी क्षमा" इत्यमरः ॥ पुनरपि
[^1] अवन्तीम् [^2] ज्ञान.