This page has been fully proofread once and needs a second look.

निर्विन्ध्यायाः पथि भव [^1]रसाभ्यन्तरः सन्निपत्य
स्त्रीणामाद्यं [^2]प्रणयवचनं विभ्रमो हि प्रियेषु ॥ २८ ॥
 
वीचीति ॥ हे सखे, पथ्युज्जयिनीपथे वीचिक्षोभेण तरङ्गचलनेन
स्तनितानां मुखराणाम् ॥ कर्तरि क्तः ॥ विहगानां हंसानां श्रेणिः
पङ्क्तिरेव काञ्चीगुणो यस्यास्तस्याः स्खलितेनोपस्खलनेन मदस्खलितेन
च सुभगं यथा तथा संसर्पन्त्याः प्रवहन्त्या गच्छन्त्याश्च । तथा दर्शितः
प्रकटित आवर्तोऽम्भसां भ्रम एव नाभिर्यया ॥ " स्यादावर्तोऽम्भसां
भ्रमः" इत्यमरः ॥ निष्क्रान्ता विन्ध्यान्निर्विन्ध्या नाम नदी ॥ "निरा-
दयः क्रान्ताद्यर्थे पञ्चम्या " इति समासः । “द्विगुप्राप्तापन्नालम् - " इ-
त्यादिना परवल्लिङ्गताप्रतिषेधः । तस्या नद्याः संनिपत्य संगत्य । रसो
जलमभ्यन्तरे यस्य सः । अन्यत्र रसेन शृङ्गारेणाभ्यन्तरोऽन्तरङ्गो
भव । सर्वथा तस्या रसमनुभवेत्यर्थः । “शृङ्गारादौ जले वीर्ये सुवर्णे
विषशुक्रयोः । तिक्तादावमृते चैव निर्यासे पारदे ध्वनौ । आस्वादे च
रसं प्राहुः" इति शब्दार्णवे ॥ ननु तत्प्रार्थनामन्तरेण कथं तत्रानुभवो
युज्यत इत्यत आह — स्त्रीणामिति ॥ स्त्रीणां प्रियेषु विषये विभ्रमो
विलास एवाद्यं प्रणयवचनं प्रार्थनावाक्यं हि । स्त्रीणामेष स्वभावो य-
द्विलासैरेव रागप्रकाशनम् । न तु कण्ठत इति भावः ॥ विभ्रमश्चात्र
नाभिसंदर्शनादिरुक्त एव ॥
 
निर्विन्ध्याया विरहावस्थां वर्णयंस्तन्निराकरणं प्रार्थयते-
 
वेणीभूतप्रतनु[^3]सलिला[^4]सावतीतस्य सि[^5]न्धुः
पाण्डुच्छाया तटरुहतरुभ्रंशिर्भि[^6]र्जीर्णपर्णैः ।
सौभाग्यं ते [^7]सुभग विरहावस्थया [^8]व्यञ्जयन्ती
कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ २९ ॥
 
वेणीति ॥ अवेणी वेणीभूतं वेण्याकारं प्रतनु स्तोकं च सलिलं
यस्याः सा तथोक्ता । अन्यत्र वेणीभूतकेशपाशेति च ध्वन्यते । रुह-
न्तीति रुहाः । इगुपधलक्षणः कप्रत्ययः । तटयो रुहा ये तरवस्तेभ्यो
भ्रश्यन्तीति तथोक्तैः जीर्णपर्णैः शुष्कपत्रैः पाण्डुच्छाया पाण्डुवर्णा ।
 
[^1] रसाभ्यन्तरम् [^2] प्रणयि [^3] सालिलाम्. [^4] सा तु; ताम्. [^5] सिन्धुम्.
[^6] शीर्ण. [^7] असुभग. [^8] व्यञ्जयन्तीम्.