This page has been fully proofread once and needs a second look.

भिदादित्वादङ्प्रत्ययः । तया क्लान्तानि म्लानानि कर्णोत्पलानि येषां
तेषां तथोक्तानाम् । पुष्पाणि लुनन्तीति पुष्पलाव्यः पुष्पावचायिकाः
स्त्रियः ॥ “कर्मण्यण्’” । “टिड्ढाणञ् - " इत्यादिना ङीपू । तासां मु-
खानि । छायाया अनातपस्य दानात् । कान्तिदानं च ध्वन्यते ॥ " छाया
सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः" इत्यमरः ॥ कामुकदर्शनात्का-
मिनीनां मुखविकासो भवतीति भावः ॥ क्षणपरिचितः क्षणं संसृष्टः
सन् । न तु चिरम् । गच्छ ॥
 
वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां
सौधोत्सङ्गप्रणयविमुखो मा [^1]स्म भूरुज्जयिन्याः ।
विद्युद्दाम[^2]स्फुरितचकितैस्तत्र पौराङ्गनानां
लोलापाङ्ग्रैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ २७ ॥
 
वक्र इति ॥ उत्तराशामुदीचीं दिशं प्रति प्रस्थितस्य भवतः पन्था
उज्जयिनीमार्गो वक्रो यदपि । दूरो यद्यपीत्यर्थः ॥ विन्ध्यादुत्तरवा-
हिन्या निर्विन्ध्यायाः प्राग्भागे कियत्यपि दूरे स्थितोज्जयिनी । उत्तर-
पथस्तु निर्विन्ध्यायाः पश्चिम इति वक्रत्वम् ॥ तथाप्युज्जयिन्या
विशालनगरस्य ॥ "विशालोज्जयिनी समा" इत्युत्पलः ॥ सौधाना-
मुत्सङ्गेषूपरिभागेषु प्रणयः परिचयः ॥ “प्रणय: स्यात्परिचये याच्ञा-
यां सौहृदेऽपि च” इति यादवः ॥ तस्य विमुखः पराङ्मुखो मा स्म
भूः । न भवेत्यर्थः ।। “स्मोत्तरे लङ् च” इति चकारादाशीरर्थे लुङ् ।
न माङ्योगे" इत्यडागमप्रतिषेधः ॥ तत्रोज्जयिन्यां विद्युद्दाम्नो
विद्युल्लतानां स्फुरितेभ्यः स्फुरणेभ्यश्चकितैर्लोलापाङ्गैश्चञ्चलकटाक्षैः
पौराङ्गनानां लोचनैर्न रमसे यदि तर्हि त्वं वञ्चितः प्रतारितोऽसि । ज-
न्मवैफल्यं भवेदित्यर्थः ॥
 
संप्रत्युज्जयिनीं गच्छतस्तस्य मध्येमार्गं निर्विन्ध्यासंबन्धमाह-
 
वीचिक्षोभ[^3]स्तनितविहगश्रेणिकाञ्चीगुणायाः
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः ।
 
[^1] च. [^2] स्फुरण, [^3] क्वणित.