This page has been fully proofread once and needs a second look.

ण्याः क्रेयाः स्त्रियः पण्यस्त्रियो वेश्याः ॥ " वारस्त्री गणिका वेश्या
पण्यस्त्री रूपजीविनी" इति शब्दार्णवे ॥ तासां रतिषु यः परिमलो
गन्धविशेषः ॥ " विमर्दोत्थे परिमलो गन्धे जनमनोहरे" इत्यमरः ॥
तमुद्गिरन्त्याविष्कुर्वन्तीति तथोक्तानि तैः । शिलावेश्मभिः कन्दरैर्नागरा-
णां पौराणामुद्दामान्युत्कटानि यौवनानि प्रथयति प्रकटयति ॥ उत्क-
टयौवनाः क्वचिदनुरक्ता वाराङ्गना विश्रम्भविहाराकाङ्क्षिण्यो मात्रादिभ-
यान्निशीथसमये कंचन विविक्तं देशमाश्रित्य रमन्ते । तच्चात्र बहुल-
मस्तीति प्रसिद्धिः ॥ अत्रोद्गारशब्दो गौणार्थत्वान्न जुगुप्सावहः ।
प्रत्युत काव्यस्यातिशोभाकर एव । तदुक्तं दण्डिना - " निष्ठ्यूतो-
द्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां
विगाहते ॥” इति ॥
 
विश्रान्तः सन्व्रज [^1]वननदीतीरजातानि सिञ्च-
न्नुद्यानानां नवजलकणैर्यूथिकाजालकानि ।
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ २६ ॥
 
विश्रान्त इति ॥ विश्रान्तः संस्तत्र नीचैर्गिरौ विनीताध्वश्रमः सन् ।
अथ विश्रान्तेरनन्तरम् । वनेऽरण्ये या नद्यस्तासां तीरेषु जातानि
स्वयंरूढानि अकृत्रिमाणीत्यर्थः ॥ “नदनदी - " इति पाठे "पु-
मान्स्त्रिया" इत्येकशेषो दुर्वारः ॥ तेषामुद्यानानामारामाणां संब-
न्धीनि यूथिकाजालकानि मागधीकुसुममुकुलानि ॥ “अथ मागधी ।
गणिका यूथिका " इत्यमरः ॥ "कोरकजालककलिकाकुङ्मलमुकुलानि
तुल्यानि" इति हलायुधः ॥ नवजलकणैः सिञ्चन्नार्द्रीकुर्वन् ॥ अत्र
सिञ्चतेरार्द्रीकरणार्थत्वाद्द्रवद्रव्यस्य करणत्वम् । यत्र तु क्षरणमर्थस्तत्र
द्रवद्रव्यस्य कर्मत्वम् । यथा “ रेत: सिक्त्वा कुमारीषु”। “सुखैर्निषि-
ञ्चन्तमिवामृतं त्वचि" इत्येवमादि ॥ एवं किरतीत्यादीनामपि “रजः
किरति मारुतः” । “अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः" इत्या-
दिष्वर्थभेदाश्रयणेन रजोलाजादीनां कर्मत्वकरणत्वे गमयितव्ये ॥ तथा
गण्डयोः कपोलयोः स्वेदस्यापनयनेन प्रमार्जनेन या रुजा पीडा ॥
 
[^1] नव; नग.