This page has been fully proofread once and needs a second look.

तेषामिति ॥ दिक्षु प्रथितं प्रसिद्धं विदिशेति लक्षणं नामधेयं य-
स्यास्ताम् ॥ "लक्षणं नाम्नि चिह्ने च" इति विश्वः ॥ तेषां दशा-
र्णानां संबन्धिनीम् । धीयन्तेऽस्यामिति धानी ॥ " करणाधिकरणयो-
श्च" इति ल्युट् ॥ राज्ञां धानी राजधानी ॥ "कृद्योगलक्षणा षष्ठी
समस्यते" इति वक्तव्यात्समासः ॥ तां प्रधाननगरीम् ॥ "प्रधानन-
गरी राज्ञां राजधानीति कथ्यते" इति शब्दार्णवे ॥ गत्वा प्राप्य
सद्यः कामुकत्वस्य विलसितायाः ॥ “विलासी कामुकः कामी स्त्री-
परो रतिलम्पटः" इति शब्दार्णवे ॥ अविकलं समग्रं फलं प्रयोजनं
लब्धा लप्स्यते । त्वयेति शेषः ॥ कर्मणि लुटू ॥ कुतः । यस्मात्कार-
णात्स्वादु मधुरम् चला ऊर्मयो यस्य तच्चलोर्मि तरङ्गितं वेत्रवत्या
नाम नद्याः पयः सभ्रूभङ्गं भ्रूकुटियुक्तम् । दशनपीडयेति भावः । मुख-
मिवाधरमिवेत्यर्थः । तीरोपान्ते तटप्रान्ते यत्स्तनितं गर्जितं तेन सुभगं
यथा तथा । स्तनितशब्देन भणितमपि व्यपदिश्यते । “ऊर्ध्वमुच्चलि-
तकण्ठनासिकं हुङ्कृतं स्तनितमल्पघोषवत्" इति लक्षणात् ॥ पा-
स्यसि ॥ पिबतेर्लृट् ॥ " कामिनामधरास्वादः सुरतादतिरिच्यते"
इति भावः ॥
 
नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो-
स्त्वत्संपर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः ।
यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणा-
मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ २५ ॥
 
नीचैरिति ॥ हे मेघ, तत्र विदिशासमीपे । विश्रामो विश्रमः स्वे-
दापनयः ॥ भावार्थे घञ्प्रत्ययः ॥ तस्य हेतोः । विश्रामार्थमित्यर्थः ॥
" षष्ठी हेतुप्रयोगे" इति षष्ठी । विश्रामेत्यत्र "नोदात्तोपदेशस्य मान्त-
स्यानाचमे: " इति पाणिनीये वृद्धिप्रतिषेधेऽपि “विश्रामो वा" इति
चन्द्रव्याकरणे विकल्पेन वृद्धिविधानाद्रूपसिद्धिः ॥ प्रौढपुष्पैः प्रबुद्ध -
कुसुमैः कदम्बैर्नीपवृक्षैस्त्वत्संपर्कात्तव सङ्गात् । पुलका अस्य जाताः
पुलकितमिव संजातपुलकमिव स्थितम् ॥ तारकादित्वादितच्प्रत्ययः ॥
नीचैरित्याख्या यस्य तं नीचैराख्यं गिरिमधिवसेः ॥ गिरौ वसेरि-
त्यर्थः ॥ “उपान्वध्याङ्वसः" इति कर्मत्वम् ॥ यो नीचैर्गिरिः । प-