This page has been fully proofread once and needs a second look.

केकाः" इत्यत्र केकास्वारोप्यमाणस्य स्वागतवचनस्य प्रकृतप्रत्युद्गमनो-
पयोगात्परिणामालंकारः । तदुक्तमलंकारसर्वस्वे – “आरोप्यमाणस्य
प्रकृतोपयोगित्वे परिणामः" इति ॥
 
पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नै -

र्
नी[^1]डारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः ।
त्वय्यासन्ने [^2]परिणतफलश्यामजबूवनान्ता:
संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २३ ॥
 
पाण्ड्विति ॥ हे मेघ, त्वय्यासन्ने संनिकृष्टे सति दशार्णा नाम ज-
नपदाः सूचिभिन्नैः सूचिषु मुकुलाग्रेषु भिन्नैर्विकसितैः ॥ “केतकि-
मुकुलाग्रेषु सूचिः स्यात्" इति शब्दार्णवे ॥ केतकैः केतकीकुसुमैः
पाण्डुच्छाया हरितवर्णा उपवनानां वृतयः कण्टकशाखावरणा येषु
ते तथोक्ताः ॥ “प्राकारो वरण: साल: प्राचीरं प्रान्ततो वृतिः"
इत्यमरः ॥ तथा गृहबलिभुजां काकादिग्रामपक्षिणां नीडारम्भैः कुला-
यनिर्माणैः ॥ "कुलायो नीडमस्त्रियाम्" इत्यमरः ॥ चित्याया
इमानि चैत्यानि रथ्यावृक्षाः ॥ “चैत्यमायतने बुद्धवन्द्ये चोद्देशपादपे"
इति विश्वः ॥ आकुला संकीर्णानि ग्रामेषु चैत्यानि येषु ते तथोक्ताः ।
तथा परिणतैः पक्वैः फलैः । श्यामानि यानि जम्बूवनानि तैरन्ता
रम्याः ॥ "मृताववसिते रम्ये समाप्तावन्त इष्यते " इति शब्दार्णवे ॥
तथा कतिपयेष्वेव दिनेषु स्थायिनो हंसा येषु ते तथोक्ता एवंविधाः
संपत्स्यन्ते भविष्यन्ति ॥ " पोटायुवतिस्तोककतिपय - " इत्यादिना
कतिपयशब्दस्योत्तरपदत्वेऽपि न तच्छब्दस्योत्तरत्वमस्त्यस्य शास्त्रस्य
प्रायिकत्वात् ॥
 
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं
गत्वा सद्यः फल[^3]मविकलं कामुकत्वस्य [^4]लब्धा ।
तीरोपान्तस्तनितसुभगं पास्यसि [^5]स्वादु यस्मा-
त्सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्वलोर्मि ॥ २४ ॥
 
[^1] नीडारम्भे. [^2] परिणतिफल; फलपरिणति. [^3] अतिमहत्. [^4] लब्ध्वा.
[^5] स्वादुयुक्तम्.