This page has been fully proofread once and needs a second look.

त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः
सो[^1]त्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥
 
अम्भ इति ॥ अम्भोबिन्दूनां वर्षोदबिन्दूनां ग्रहणे । “सर्वंसहाप-
तितमम्बु न चातकस्य हितम्" इति शास्त्राद्भूस्पृष्टोदकस्य तेषां रोग-
हेतुत्वादन्तराल एव स्वीकारे चतुरांश्चातकान्वीक्षमाणाः कौतुकात्प-
श्यन्तः श्रेणीभूता बद्धपङ्क्तीः ॥ अभूततद्भावे च्विः ॥ बलाका बकपङ्क्तीः
परिगणनयैका द्वे तिस्र इति संख्यानेन निर्दिशन्तो हस्तेन दर्शयन्तः
सिद्धाः स्तनितसमये त्वद्गर्जितकाले सोत्कम्पान्युत्कम्पपूर्वकाणि प्रिय-
सहचरीणां संभ्रमेणालिङ्गितान्यासाद्य । स्वयंग्रहणाश्लेषसुखमनुभूये-
त्यर्थः । त्वां मानयिष्यन्ति । त्वन्निमित्तत्वात्सुखलाभस्येति भावः ॥
 
उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः
कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ।
शुक्लापाङ्गैः [^2]सजलनयनैः स्वागतीकृत्य केका:
[^3]प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ २२ ॥
 
उत्पश्यामीति ॥ हे सखे मेघ, मत्प्रियार्थं यथा तथा द्रुतं क्षिप्रम् ॥
"लघु क्षिप्रमरं द्रुतम्" इत्यमरः ॥ यियासोर्यातुमिच्छोरपि ॥ यातेः
सन्नन्तादुप्रत्ययः ॥ ते तव ककुभैः कुटजकुसुमैः सुरभौ सुगन्धिनि ॥
“ककुभः कुटजेऽर्जुने” इति शब्दार्णवे ॥ पर्वते पर्वते प्रतिपर्वतम् ॥
वीप्सायां द्विरुक्तिः ॥ कालक्षेपं कालविलम्बम् ॥ "क्षेपो विलम्बे
निन्दायाम्" इति विश्वः ॥ उत्पश्याम्युत्प्रेक्षे ॥ विलम्बहेतुं दर्शय-
न्नाशुगमनं प्रार्थयते – शुक्लेति ॥ सजलानि सानन्दबाष्पाणि नयनानि
येषां तैः शुक्लापाङ्गैर्मयूरैः ॥ “मयूरो बर्हिणो बर्ही शुक्लापाङ्गः शिखा-
वलः” इति यादवः ॥ केकाः स्ववाणीः ॥ " केका वाणी मयूरस्य "
इत्यमरः ॥ स्वागतीकृत्य स्वागतवचनीकृत्य प्रत्युद्यातः प्रत्युद्गतः ।
मयूरवाणीकृतातिथ्य इत्यर्थः । भवान्कथमपि यथाकथंचिदाशु गन्तुं
व्यवस्येदुद्युञ्जीत ॥ प्रार्थने लिङ् । “ शेषे प्रथमः" इति प्रथमपुरुषः ।
शेषश्चायं भवच्छब्दो युष्मदस्मच्छब्दव्यतिरेकात् ॥ "स्वागतीकृत्य
 
[^1] सोत्कण्ठानि. [^2] सनयनजलै: [^3] प्रत्युद्घातः.