This page has been fully proofread once and needs a second look.

" कषायाश्चाहिमास्तस्य विशुद्धौ श्लेष्मणो हिताः । किमु तिक्तकषा-
या वा ये निसर्गात्कफापहाः ॥ कृतशुद्धेः क्रमात्पीतपेयादेः पथ्यभो-
जिनः । वातादिभिर्न बाधा स्यादिन्द्रियैरिव योगिनः ॥ "
 
नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढै-
राविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् ।
जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्या:
सारङ्गास्ते [^1]जललवमुच: सूचयिष्यन्ति मार्गम् ॥ २१ ॥
 
नीपमिति ॥ सारङ्गा मतङ्गजाः कुरङ्गा भृङ्गा वा ॥ " सारङ्गश्चात-
के भृङ्गे कुरङ्गे च मतङ्गजे” इति विश्वः ॥ अर्धरूढैरेकदेशोद्गतैः के-
सरैः किञ्जल्कैर्हरितं पालाशवर्णं कपिशं कृष्णपीतं च ॥ "पालाशो
हरितो हरित्" इति । "श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते"
इति चामरः ॥ श्यामवर्णमिति यावत् ॥ "वर्णो वर्णेन” इति समासः ॥
नीपं स्थलकदम्बकुसुमम् ॥ " अथ स्थलकदम्बके । नीपः स्यात्पुलके"
इति शब्दार्णवे ॥ दृष्ट्वा संप्रेक्ष्य । विदित्वेति यावत् । तथा कच्छेष्वनू-
पेष्वनुकच्छम् ॥ "अव्ययं विभक्ति - " इत्यादिना विभक्त्यर्थेऽव्ययी-
भावः ॥ " जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः" इत्यमरः ॥
आविर्भूताः प्रथमा प्रथमोत्पन्ना मुकुला यासां ताः कन्दलीर्भूमिक-
दलीः ॥ " द्रोणपर्णी स्निग्धकन्दा कन्दली भूकदल्यपि" इति शब्दा-
र्णवे ॥ जग्ध्वा भक्षयित्वा ॥ "अदो जग्धिः - " इति जग्ध्यादेशः ॥
अरण्येष्वधिकसुरभिमतिघ्राणतर्पणम् ॥ " दग्धारण्येषु" इति पाठे
"दग्धम्" इत्यधिकविशेषणम् ॥ अर्थवशात्कन्दलीश्च दृष्ट्वैवेत्यन्वयो
द्रष्टव्यः ॥ उर्व्या भूमेर्गन्धमाघ्राय जललवमुचो मेघस्य ते तव मार्गं
सूचयिष्यन्त्यनुमापयिष्यन्ति । यत्र यत्र वृष्टिकार्यं कन्दलीमुकुलनी-
पकुसुमादिकं दृश्यते तत्र तत्र त्वया वृष्टमित्यनुमीयत इति भावः ॥
 
प्रक्षिप्तमपि व्याख्यायते-
 
अम्भोबिन्दुग्रहण[^2]चतुरांश्चातकान्वीक्षमाणाः
श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः ।
 
[^1] नवजलमुच: [^2] रभसान्.