This page has been fully proofread once and needs a second look.

ले स्याद्घटिकाद्वितयेऽपि च" इति शब्दार्णवे ॥ स्थित्वा विश्रम्य ।
तोयोत्सर्गेण “त्वामासार—" इत्युक्तवर्षणेन द्रुततरगतिर्लाघवाद्धेतोरति-
क्षिप्रगमनः सन् । तस्मादाम्रकूटात्परमनन्तरं तत्परं वर्त्म मार्गं तीर्णोऽति-
क्रान्तः । उपलैः पाषाणैर्विषमे विन्ध्यस्याद्रेः पादे प्रत्यन्तपर्वते ॥ “पा-
दाः प्रत्यन्तपर्वताः” इत्यमरः ॥ विशीर्णां समन्ततो विसृमराम् ॥ एतेन
कस्याश्चित्कामुक्याः प्रियतमचरणपातोऽपि ध्वन्यते ॥ रेवां नर्मदाम् ॥
" रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका" इत्यमरः ॥ गजस्याङ्गे
शरीरे भक्तयो रचनाः रेखा इति यावत् ॥ "भक्तिर्निषेवणे भागे
रचनायाम्” इति शब्दार्णवे ॥ तासां छेदैर्भङ्गिभिर्भाभिर्विरचितां भूतिं
शृङ्गारमिव भसितमिव वा ॥ "भूतिर्मातङ्गशृङ्गारे जातौ भस्मनि
संपदि" इति विश्वः ॥ द्रक्ष्यसि । अयमपि महांस्ते नयनकौतुकलाभ
इति भावः ॥
 
तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टि-
र्जम्बूकु[^1]ञ्जप्रतिहतरयं तोयमादाय गच्छेः ।
अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघु: पूर्णता गौरवाय ॥ २० ॥
 
तस्या इति ॥ हे मेघ, वान्तवृष्टिरुद्गीर्णवर्षः सन् । कृतवमनश्च
व्यज्यते । तिक्तैः सुगन्धिभिस्तिक्तरसवद्भिश्च ॥ " तिक्तो रसे सुगन्धौ
च" इति विश्वः ॥ वनगजमदैर्वासितं सुरभितं भावितं च । हिमवद्वि-
न्ध्यमलया गजानां प्रभवा इति विन्ध्यस्य गजप्रभवत्वादिति भावः ।
जम्बूकुञ्जैः प्रतिहतरयं प्रतिबद्धवेगम् । सुखपेयमित्यर्थः । अनेन लघुत्वं
कषायभावना च व्यज्यते । तस्या रेवायास्तोयमादाय गच्छेर्वज । हे
घन मेघ, अन्तः सारो बलं यस्य तं त्वामनिल आकाशवायु: । शरीर-
स्थश्च गम्यते । तुलयितुं न शक्ष्यति शक्तो न भविष्यति । तथाहि ।
रिक्तोऽन्तःसारशून्यः सर्वोऽपि लघुर्भवति । प्रकम्प्यो भवतीत्यर्थः ।
पूर्णता सारवत्ता गौरवायाप्रकम्प्यत्वाय भवतीत्यर्थः ॥ अयमत्र ध्व-
निः— आदौ वमनशोधितस्य पुंसः पश्चाच्छ्लेष्मशोषणाय लघुतिक्त-
कषायाम्बुपानाल्लब्धबलस्य वातप्रकम्पो न स्यादिति । तथाह वाग्भटः -
 
[^1] खण्ड,