This page has been fully proofread once and needs a second look.

छन्नेति ॥ हे मेघ, परिणतैः परिपक्वैः फलैर्द्योतन्त इति तथोक्तैः ।
आषाढे वनचूताः फलन्ति पच्यन्ते च मेघवातेनेत्याशयः । काननाम्रै-
र्वनचूतैश्छन्नोपान्त आवृतपार्श्वोऽचल आम्रकूटाद्रिः स्निग्धवेणीसवर्णे
मसृणकेशबन्धच्छाये । श्यामवर्ण इत्यर्थः ॥ " वेणी तु केशबन्धे जल-
स्रुतौ” इति यादवः ॥ त्वयि शिखरं शृङ्गमारूढे सति ॥ “यस्य च
भावेन भावलक्षणम्" इति सप्तमी ॥ मध्ये श्यामः शेषे मध्यादन्यत्र
विस्तारे परितः पाण्डुर्हरिण: ॥ "हरिणः पाण्डुरः पाण्डु: " इत्यमरः ॥
भुवः स्तन इव । अमरमिथुनानाम् । खेचराणामिति भावः । प्रेक्षणीयां
दर्शनीयामवस्थां नूनं यास्यति । मिथुनग्रहणं कामिनामेव स्तनत्वेनो-
त्प्रेक्षा संभवतीति कृतम् । यथा परिश्रान्तः कश्चित्कामी कामिनीनां
कुचकलशे विश्रान्तः सन्स्वपिति तद्वद्भवानपि भुवो नायिकायाः स्तन
इति ध्वनिः ॥
 
स्थित्वा तस्मिन्वनचरवधूभुक्तकुञ्जे मुहूर्तं
[^1] तोयोत्सर्गद्रु[^2]ततरगतिस्तत्परं वर्त्म तीर्ण: ।
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ १९ ॥
 
स्थित्वेति ॥ हे मेघ, वने चरन्ति ते वनचराः ॥ “तत्पुरुषे कृति
बहुलम्" इति बहुलग्रहणाद् लुग्भवति ॥ तेषां वधूभिर्मुक्ताः कुञ्जा ल-
तागृहा यत्र तस्मिन् ॥ “निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे"
इत्यमरः ॥ तत्र ते नयनविनोदोऽस्तीत्यर्थः । तस्मिन्नाम्रकूटे मुहूर्तम-
ल्पकालम् । न तु चिरं,स्वकार्यविरोधादिति भावः ॥ " मुहूर्तमल्पका-
 
१८ - १९ श्लोकयोर्मध्ये क्वचित्प्रक्षिप्तोऽयं दृश्यते –
 
[^1] अध्वक्लान्तं प्रतिमुखगतं सानुमाना[^2]म्रकूट-
स्तुङ्गेन त्वां जलद शिरसा वक्ष्यति [^3]श्लाघ्यमानः ।
आसारेण त्वमपि शमयेस्तस्य नैदाघमग्निं
[^4] सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु ॥” इति
 
([^1] अध्वश्रान्तम्. [^2] चित्रकूट. [^3] श्लाघमान. [^4] सत्कारार्द्रः)
 
[^1] तोयोत्सर्गात्. [^2] लघुतर.