This page has been fully proofread once and needs a second look.

त्पश्चाल्लघुगतिस्तत्र निर्वृष्टत्वात्क्षिप्रगमनः सन् ॥ "लघुक्षिप्रमरं द्रुतम्"
इत्यमरः ॥ भूयः पुनरप्युत्तरेणैवोत्तरमार्गेणैव व्रज गच्छ ॥ तृतीयावि-
धाने "प्रकृत्यादिभ्य उपसंख्यानम्" इति तृतीया ॥ यथा कश्चिद्बहु-
वल्लभः पतिः कुत्रचित्क्षेत्रे कलत्रे गूढं विहृत्य ॥ “ क्षेत्रं शरीरकेदारे
सिद्धस्थानकलत्रयोः" इति विश्वः ॥ दाक्षिण्यभङ्गभयान्नीचमार्गेण नि-
र्गत्य पुनः सर्वाध्यक्ष इव संचरति तद्वदिति ध्वनिः ॥
 
त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना
वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ।
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७ ॥
 
त्वामिति ॥ आम्राश्चूताः कूटेषु शिखरेषु यस्य स आम्रकूटो नाम
सानुमान्पर्वतः ॥ ‘‘आम्रश्चूतो रसालोऽसौ " इति । "कूटोsस्त्री शिखरं
शृङ्गम्" इति चामरः । आसारो धारावृष्टिः ॥ “धारासंपात आसारः"
इत्यमरः ॥ तेन प्रशमितो वनोपप्लवो दावाग्निर्येन तम् । कृतोपकार-
मित्यर्थः । अध्वश्रमेण परिगतं व्याप्तं त्वां साधु सम्यङ्मूर्ध्ना वक्ष्यति
वोढा ॥ हवेर्लृट् । तथाहि । क्षुद्रः कृपणोऽपि ॥ " क्षुद्रो दरिद्रे कृपणे
नृशंसे" इति यादवः ॥ संश्रयाय संश्रयणाय मित्रे सुहृदि ॥ “अथ
मित्रं सखा सुहृत्" इत्यमरः ॥ प्राप्त आगते सति । प्रथमसुकृता-
पेक्षया पूर्वोपकारपर्यालोचनया विमुखो न भवति यस्तथा तेन प्रका-
रेणोच्चैरुन्नतः स आम्रकूट: किं पुनर्विमुखो न भवतीति किमु वक्त-
व्यमित्यर्थः ॥ एतेन प्रथमावसथे सौख्यलाभात्ते कार्यसिद्धिरस्तीति सू-
चितम् । तदुक्तं निमित्तनिदाने – “प्रथमावसथे यस्य सौख्यं तस्याखि-
लेऽध्वनि । शिवं भवति यात्रायामन्यथा त्वशुभं ध्रुवम् ॥” इति ॥
 
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रै-
स्त्वय्यारूढे शिखरमचल: स्निग्धवेणीसवर्णे ।
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
मध्ये श्याम: स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १८ ॥