This page has been fully proofread once and needs a second look.

सर्गतो दोषगुणा भवन्तीत्येतन्मृषा येन जलाशयेऽपि । स्थित्वानुकूलं
निचुलश्चलन्तमात्मानमारक्षति सिन्धुवेगात् ॥” इत्येतच्छ्लोकनिर्माणात्तस्य
कवेर्निचुलसंज्ञेत्याहुः ॥
 
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ता-
द्वल्मीकाग्रात्प्रभवति धनुःखण्डमाखण्डलस्य ।
येन श्यामं वपुरतितरां कान्तिमा[^1]पत्स्यते ते
बर्हेणैव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥
 
रत्नेति ॥ रत्नच्छायानां पद्मरागादिमणिप्रभाणां व्यतिकरो मिश्र-
णमिव प्रेक्ष्यं दर्शनीयमाखण्डलस्येन्द्रस्यैतद्धनुःखण्डम् ॥ एतदिति ह-
स्तेन निर्देशो विवक्षितः ॥ पुरस्तादग्रे वल्मीकाग्राद्वामलूरविवरात् ॥
“वामलूरश्च नाकुश्च वल्मीकं पुंनपुंसकम्" इत्यमरः ॥ प्रभवत्यावि-
र्भवति । येन धनुःखण्डेन ते तव श्यामं वपुः । स्फुरितरुचिनोज्ज्वल-
कान्तिना बर्हेण पिच्छेन ॥ "पिच्छबर्हे नपुंसके" इत्यमरः ॥ गोपवे-
षस्य विष्णोर्गोपालस्य कृष्णस्य श्यामं वपुरिव । अतितरां कान्तिं शो-
भामापत्स्यते प्राप्स्यते ॥
 
त्वय्यायत्तं कृषिफलमिति [^2]भ्रूविलासानभिज्ञैः
प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।
सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं
किंचित्पश्चाद्व्र[^3]ज लघुगतिर्भूय[^4] एवोत्तरेण ॥ १६ ॥
 
त्वयीति ॥ कृषेर्हलकर्मणः फलं सस्यं त्वयि ॥ अधिकरणविवक्षा-
यां सप्तमी । आयत्तमधीनम् ॥ “अधीनो निघ्न आयत्तः" इत्यमरः ॥
इति हेतोः प्रीत्या स्निग्धैः । अकृत्रिमप्रेमार्द्रैरित्यर्थः । भ्रूविलासानां
भ्रूविकाराणामनभिज्ञैः । पामरत्वादिति शेषः । जनपदवधूनां पल्लीयो -
षितां लोचनैः पीयमानः सादरं वीक्ष्यमाणः सन् । मालं मालाख्यं क्षेत्रं
शैलप्रायमुन्नतस्थलम् ॥ "मालमुन्नतभूतलम्" इत्युत्पलमालायाम् ॥
सद्यस्तत्कालमेव सीरैर्हलैरुत्कषणेन कर्षणेन सुरभि घ्राणतर्पणं यथा त-
थारुह्य । तत्राभिवृष्येत्यर्थः ॥ "सुरभिर्घ्राणतर्पण: " इत्यमरः ॥ किंचि-
 
[^1] आलप्स्यते. [^2] भ्रूविकारानभिज्ञैः [^3] प्रवलयगतिम्. [^4] किंचिदेव.