This page has been fully proofread once and needs a second look.

अद्रेः शृङ्गं [^1]हरति पवनः किंस्विदित्युन्मुखीभि-
र्दृष्टो[^2]त्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।
स्थानादस्मात्सर निचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिहरन्स्थूलहस्ता[^3]वलेपान् ॥ १४ ॥
 
अद्रेरिति ॥ पवनो वायुरद्रेश्चित्रकूटस्य शृङ्गं हरति किंस्वित् ॥
किंस्विच्छब्दो विकल्पवितर्कार्थादिषु पठितः ॥ इति शङ्कयोन्मुखी-
भिरुन्नतमुखीभिः ॥ “स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्" इति ङीप् ॥
मुग्धाभिर्मूढाभिः ॥ “मुग्ध: सुन्दरमूढयो: " इत्यमरः । सिद्धानां दे-
वयोनिविशेषाणामङ्गनाभिश्चकितं चकितप्रकारं यथा तथा ॥
"प्रकारे गुणवचनस्य" इति द्विर्भावः ॥ दृष्टोत्साहो दृष्टोद्योगः
सन् । सरसा आर्द्रा निचुलाः स्थलवेतसा यस्मिंस्तस्मात् ॥ “वानीरे
कविभेदे स्यान्निचुलः स्थलवेतसे " इति शब्दार्णवे ॥ अस्मात्स्थाना-
दाश्रमात्पथि नभोमार्गे दिङ्नागानां दिग्गजानां स्थूला ये हस्ताः करा-
स्तेषामवलेपानाक्षेपान्परिहरन् ॥ “हस्तो नक्षत्रभेदे स्यात्करेभ-
करयोरपि” इति । “अवलेपस्तु गर्वे स्यात्क्षेपणे दूषणेऽपि च "
इति च विश्वः ॥ उदङ्मुखः सन् । अलकाया उदीच्यत्वादित्याशयः ॥
खमाकाशमुत्पतोद्गच्छ ॥ अत्रेदमप्यर्थान्तरं ध्वनयति — रसिको नि.
चुलो नाम महाकविः कालिदासस्य सहाध्यायी परापादितानां का-
लिदासप्रबन्धदूषणानां परिहर्ता यस्मिन्स्थाने तस्मात्स्थानादुदङ्मुखो
निर्दोषत्वादुन्नतमुखः सन्पथि सारस्वतमार्गे दिङ्नागानाम् ॥ पूजायां
बहुवचनम् ॥ दिङ्नागाचार्यस्य कालिदासप्रतिपक्षस्य हस्तावलेपान्ह -
स्तविन्यासपूर्वकाणि दूषणानि परिहरन् ॥ "अवलेपस्तु गर्ने स्याल्लेपने
दूषणेऽपि च” इति विश्वः ॥ अद्रेरद्रिकल्पस्य दिङ्नागाचार्यस्य शृङ्गं
प्राधान्यम् ॥ "श्रृङ्गं प्राधान्यसान्वोश्च" इत्यमरः ॥ हरति किंस्वि-
दिति हेतुना सिद्धैः सारस्वतसिद्धैर्महाकविभिरङ्गनाभिश्च दृष्टोत्साहः
सन्स्वमुत्पतोचैर्भवेति स्वप्रबन्धमात्मानं वा प्रति कवेरुक्तिरिति ॥ “सं-
 
[^1] वहति [^2] दृष्टोच्छ्रायः [^3] अवलेहान्