2022-09-12 01:30:16 by suhasm
This page has been fully proofread once and needs a second look.
खित्वान्महत्त्वात्पवित्रत्वाच्च संभावनार्हम् । अनुं शैलं चित्रकूटाद्रिमालि-
ङ्ग्यापृच्छस्व साधो यामीत्यामन्त्रणेन सभाजय ॥ " आमन्त्रणसभाजने ।
आप्रच्छन्नम्” इत्यमरः ॥ "आङि नुप्रच्छ्योरुपसंख्यानम्" इत्यात्म-
नेपदम् ॥ सखित्वं निर्वाहयति – काल इति ॥ काले काले प्रतिप्रावृट्-
कालम् । सुहृत्समागमनकालश्च कालशब्देनोच्यते ॥ वीप्सायां द्विरु-
क्तिः ॥ भवतः संयोगं संपर्कमेत्य चिरविरहजमुष्णं बाष्पमूष्माणं नेत्र-
जलं च ॥ "बाप्पो नेत्रजलोष्मणोः" इति विश्वः ॥ मुञ्चतो यस्य शै-
लस्य स्नेहव्यक्तिः प्रेमाविर्भावो भवति । स्निग्धानां हि चिरविरहसं-
गतानां बाष्पपातो भवतीति भावः ॥
संप्रति तस्य मार्गं कथयति –
मार्गं तावच्छृणु कथयतस्त्व[^1]त्प्रयाणानुरूपं
संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् ।
खिन्नः खिन्न: शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः स्रोतसां चोप[^2]भुज्य ॥ १३ ॥
मार्गमिति ॥ हे जलद, तावदिदानीं कथयतः । मत्त इति शेषः ।
त्वत्प्रयाणस्यानुरूपमनुकूलं मार्गमध्वानम् ॥ “मार्गो मृगपदे मासि
सौम्यर्क्षेऽन्वेषणेऽध्वनि" इति यादवः ॥ शृणु । तदनु मार्गश्रवणानन्तरं
श्रोत्राभ्यां पेयं पानार्हम् । अतितृष्णया श्रोतव्यमित्यर्थः ॥ पेयग्रह-
णात्संदेशस्यामृतसाम्यं गम्यते ॥ मे संदेशं वाचिकम् ॥ "संदेशवा-
ग्वाचिकं स्यात्" इत्यमरः ॥ श्रोष्यसि । यत्र मार्गे खिन्नः खिन्नो-
ऽभीक्ष्णं क्षीणबलः सन् । " नित्यवीप्सयोः" इति नित्यार्थे द्विर्भावः ॥
शिखरिषु पर्वतेषु पदं न्यस्य निक्षिप्य । पुनर्बललाभार्थं क्वचिद्विश्र-
म्येत्यर्थः । क्षीणः क्षीणोऽभीक्ष्णं कृशाङ्गः सन् ॥ अत्रापि कृदन्तत्वा-
त्पूर्ववद्द्विरुक्तिः ॥ स्रोतसां परिलघु गुरुत्वदोषरहितम् । उपलास्फा-
लनखेदितत्वात्पथ्यमित्यर्थः ॥ तथा च वाग्भट : - "उपलास्फाल-
नक्षेपविच्छेदैः खेदितोदकाः । हिमवन्मलयोद्भूताः पथ्या नद्यो भव
न्त्यमूः ॥” इति ॥ पयः पानीयमुपभुज्य शरीरपोषणार्थमभ्यवहृत्य च
गन्तासि गमिष्यसि ॥ गमेर्लुट् ॥
[^1] वत्प्रयाणानुकूलम्. [^2] उपयुज्य