This page has been fully proofread once and needs a second look.

संप्रति सहायसंपत्तिश्चास्तीत्याह-
 
कर्तुं यच्च प्रभवति महीमुच्छिली[^1]न्ध्रामवन्ध्यां
तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।
आ कैलासाद्बिसकिसलयच्छेदपाथेयवन्तः
संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥
 
कर्तुमिति ॥ यद्गर्जितं कर्तृ महीमुच्छिलीन्ध्रामुद्भूतकन्दलिकाम् ॥
" कन्दल्यां च शिलीन्घ्रा स्यात्" इति शब्दार्णवे ॥ अत एवावन्ध्यां
सफलां कर्तुं प्रभवति शक्नोति । शिलीन्ध्राणां भाविसस्यसंपत्तिसूच
कत्वादिति भावः । तदुक्तं निमित्तनिदाने "कालाभ्रयोगादुदिताः
शिलीन्ध्राः संपन्नसस्यां कथयन्ति धात्रीम्" इति ॥ तच्छ्रवणसुभगं
श्रोत्रसुखम् । लोकस्येति शेषः । ते तव गर्जितं श्रुत्वा मानसोत्का मा-
नसे सरस्युन्मनसः । उत्सुका इति यावत् ॥ “उत्क उन्मनाः" इति
निपातात्साधु ॥ कालान्तरे मानसस्य हिमदुष्टत्वाद्धिमस्य च हंसानां रो-
गहेतुत्वादन्यत्र गता हंसा: पुनर्वर्षासु मानसमेव गच्छन्तीति प्रसिद्धिः ॥
बिसकिसलयानां मृणालाग्राणां छेदैः शकलैः पाथेयवन्तः । पथि साधु
पाथेयं । पथि भोज्यम् ॥ “पथ्यतिथिवसतिस्वपतेर्ढञ्” ॥ तद्वन्तः । मृणाल-
कन्दशफलसम्बन्धवन्त इत्यर्थः । राजहंसा हंसविशेषाः ॥ " राजहंसा-
स्तु ते चञ्चुचरणैर्लोहितैः सिताः" इत्यमरः ॥ नभसि व्योम्नि भवतस्तव
आ कैलासात्कैलासपर्यन्तम् ॥ पदद्वयं चैतत् ॥ सहायाः सयात्राः ॥
“सहायस्तु सयात्रः स्यात्" इति शब्दार्णवे ॥ संपत्स्यन्ते भविष्यन्ति ॥
 
आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं
वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु ।
काले काले भवति भवतो यस्य संयोगमेत्य
स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ १२ ॥
 
आपृच्छस्वेति ॥ प्रियं सखायं प्रियसखम् ॥ “राजाहःसखिभ्यष्टच्"
इति टच् समासान्तः ॥ तुङ्गमुन्नतं पुंसां वन्द्यैर्नराराधनीयै रघुपतिपदै
रामपादन्यासैर्मेखलासु कटकेषु ॥ “अथ मेखला । श्रोणिस्थानेऽद्रिक -
टके कटिबन्धेभबन्धने" इति यादवः ॥ अङ्कितं चिह्नितम् । इत्थं स-
 
[^1] उच्छिलीन्ध्रातपत्राम्.