This page has been fully proofread once and needs a second look.

स्थजन्तौ च " इति यादवः । तस्याधानमुत्पादनं तदेव क्षण उत्सवः ।
सुखहेतुत्वादिति भावः ॥ " निर्व्यापारस्थितौ कालविशेषोत्सवयोः
क्षणः” इत्यमरः ॥ तस्मिन्परिचयादभ्यासाद्धेतोः खे व्योम्नि । आब-
द्धमालाः । गर्भाधानसुखार्थं त्वत्समीपे बद्धपङ्क्तय इत्यर्थः ॥ उक्तं च
कर्णोदये "गर्भं बलाका दधतेऽभ्रयोगान्नाके निबद्धावलयः समन्तात् "
इति ॥ बलाका बलाकाङ्गना नयनसुभगं दृष्टिप्रियं भवन्तं नूनं सत्यं
सेविष्यन्ते ॥ अनुकूलमारुतचातकशब्दितबलाकादर्शनानां शुभसूचकत्वं
शकुनशास्त्रे दृष्टं तद्विस्तरभयान्नालेखि ॥
 
न च तस्या नाशाद्व्रतस्खलनाद्वा निरर्थकस्त्वत्प्रयास इत्याह
 
तां चावश्यं दिवसगणनातत्परामेकपत्नी-
मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां
सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १० ॥
 
तां चेति ॥ हे मेघ, दिवसानामवशिष्टदिनानां गणनायां संख्याने
तत्परामासक्ताम् ॥ “तत्परे प्रसितासक्तौ" इत्यमरः ॥ अतएवाव्याप-
न्नाममृताम् । शापावसाने मदागमनप्रत्याशया जीवन्तीमित्यर्थः । एक-
पतिर्यस्याः सैकपत्नी ताम् । पतिव्रतामित्यर्थः ॥ " नित्यं सपत्न्या-
दिषु " इति ङीपू नकारश्च ॥ भ्रातुर्मे जायां भ्रातृजायाम् । मातृवन्नि:-
शङ्कं दर्शनीयामित्याशयः । तां मत्प्रियामविहतगतिरविच्छिन्नगतिः
सन्नवश्यं द्रक्ष्यसि चालोकयिष्यस एव ॥ तथाहि । आशाऽतितृष्णा
“आशा दिगतितृष्णयोः" इति यादवः ॥ बध्यतेऽनेनेति बन्धो बन्ध-
नम् । वृन्तमिति यावत् । आशैव बन्ध आशाबन्धः कर्ता ॥ प्रणयि
प्रेमयुक्तमत एव कुसुमसदृशम् । सुकुमारमित्यर्थः । अत एव विप्रयोगे
विरहे सद्य:पाति सद्योभ्रंशनशीलमङ्गनानां हृदयं जीवितम् । “हृदयं
जीविते चित्ते वक्षस्याकूत [ हृद्य ] यो : " इति शब्दार्णवे ॥ प्रायशः प्रायेण
रुणद्धि प्रतिबध्नाति ॥ अर्थान्तरन्यासः ॥