2022-09-12 01:25:29 by suhasm
This page has been fully proofread once and needs a second look.
काः । प्रत्ययात्प्रियागमनविश्वासात् ॥ "प्रत्ययोऽधीनशपथज्ञानविश्वा-
सहेतुषु" इत्यमरः ॥ आश्वसन्त्यो विश्वसिताः ॥ श्वसिधातोः शत्रन्तात्
“उगितश्च" इति ङीप् ॥ तथोद्गृहीतालकान्ता दृष्टिप्रसारार्थमुन्नमय्य
धृतालकाग्राः सत्यः प्रेक्षिष्यन्ते । अत्युत्कण्ठतया द्रक्ष्यन्तीत्यर्थः ॥
मदागमनेन पथिकाः कथमागमिष्यन्तीत्यत्राह — तथाहि । त्वयि सं-
नद्धे व्यापृते सति विरहेण विधुरां विवशां जायां क उपेक्षेत । न
कोऽपीत्यर्थः । अन्योऽपि मद्व्यतिरिक्तोऽपि यो जनोऽहमिव पराधी-
नवृत्तिः परायत्तजीवनको न स्यात् । स्वतन्त्रस्तु न कोऽप्युपेक्षेतेति
भावः ॥ अत्रार्थान्तरन्यासोऽलंकारः । तदुक्तम् – “कार्यकारणसामा-
न्यविशेषाणां परस्परम् । समर्थनं यत्र सोऽर्थान्तरन्यास उदाहृतः ॥ "
इति लक्षणात् ॥
निमित्तान्यपि ते शुभानि दृश्यन्त इत्याह –
मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां
वामश्चायं नदति मधुरं चातक[^1]स्ते सगन्धः ।
गर्भाधान[^2]क्षणपरिचयान्नूनमाबद्धमाला:
[^3] सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ ९ ॥
मन्दं मन्दमिति ॥ अनुकूल: पवनो वायुस्त्वां मन्दं मन्दम् ।
अतिमन्दमित्यर्थः ॥ अत्र कथंचिद्वीप्सायामेव द्विरुक्तिर्निर्वाह्या ॥
" प्रकारे गुणवचनस्य" इत्येतदाश्रयणे तु कर्मधारयवद्भावे सुब्लुकि
मन्दमन्दमिति स्यात् । तदेवाह वामनः – “मन्दमन्दमित्यत्र प्रकारार्थे
द्विर्भावः" इति ॥ यथा सदृशम् । भाविफलानुरूपमित्यर्थः ॥ “यथा
सादृश्ययोग्यत्ववीप्सास्वार्थानतिक्रमे" इति यादवः ॥ नुदति प्रेरयति ।
अयं सगन्धः सगर्वः । संबन्धीति केचित् ॥ “गन्धो गन्धक आमोदे
लेशे संबन्धगर्वयोः" इत्युभयत्रापि विश्वः ॥ ते तव वामो वामभा-
गस्थः । “वामस्तु वक्रे रम्ये स्यात्सव्ये वामगतेऽपि च" इति शब्दार्ण-
वे ॥ चातकः पक्षिविशेषश्च मधुरं श्राव्यं नदति व्याहरति । इदं निमित्त-
द्वयं वर्तते । वर्तिष्यते चापरं निमित्तमित्याह – गर्भेति ॥ गर्भः कुक्षि -
स्थो जन्तु: "गर्भोऽपकारके ह्यग्नौ सुखे पनसकण्टके । कुक्षौ कुक्षि -
[^1] तोयगृर्ध्रुः, ते सगर्वः [^2]. क्षमपरिचयम्; स्थिरपरिचयम्. [^3]. प्रेक्षिष्यन्ते