This page has been fully proofread once and needs a second look.

त्प्रियमपि न भवतीत्यर्थः ॥ “ देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मना-
क्प्रिये " इत्यमरः ॥ अर्थान्तरन्यासानुप्राणितः प्रेयोऽलंकारः । तदुक्तं
दण्डिना – “प्रेयः प्रियतराख्यानम्" इति ॥ एतदाद्ये पादत्रये चतुर्थ-
पादस्थेनार्थान्तरन्यासेनोपजीवितमिति सुव्यक्तमेतत् ॥
 
संतप्तानां त्वमसि शरणं तत्पयोद प्रियायाः
संदेशं मे हर [^1]धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ ७ ॥
 
संतप्तानामिति ॥ हे पयोद, त्वं संतप्तानामातपेन वा प्रवासविरहेण
वा संज्वरितानाम् ॥ " संतापः संज्वरः समौ " इत्यमरः ॥ शरणं
पयोदानेनातपखिन्नानां प्रोषितानां स्वस्थानप्रेरणया च रक्षकोऽसि ॥
"शरणं गृहरक्षित्रो: " इत्यमरः ॥ तत्तस्मात्कारणाद्धनपतेः कुबेरस्य
क्रोधेन विश्लेषितस्य प्रियया वियोजितस्य मे मम संदेशं वार्तां प्रियाया
हर । प्रियां प्रति नयेत्यर्थः ॥ संबन्धसामान्ये षष्ठी ॥ संदेशहरणेना-
वयोः संतापं नुदेत्यर्थः ॥ कुत्र स्थाने सा स्थिता तत्स्थानस्य वा किं व्या-
वर्तक तत्राह - गन्तव्येति ॥ बहिर्भवं बाह्यम् ॥ “बहिर्देवपञ्चजनेभ्यश्च”
इति यञ् ॥ बाह्य उद्याने स्थितस्य हरस्य शिरसि या चन्द्रिका तथा
धौतानि निर्मलानि हर्म्याणि धनिकभवनानि यस्यां सा तथोक्ता ॥
“हर्म्यादि धनिनां वासः" इत्यमरः ॥ अनेन व्यावर्तकमुक्तम् ॥ अलका
नामालकेति प्रसिद्धा यक्षेश्वराणां वसतिः स्थानं ते तव गन्तव्या । त्वया
गन्तव्येत्यर्थः ॥ "कृत्यानां कर्तरि वा" इति षष्ठी ॥
 
मदर्थं प्रस्थितस्य ते पथिकाङ्गनाजनाश्वासनमानुषङ्गिकं फलमित्याह –
 
त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः
प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः ।
कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां
न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥८॥
 
त्वामिति ॥ पवनपदवीमाकाशमारूढं त्वाम् पन्थानं गच्छन्ति ते
पथिकाः ॥ “पथः ष्कन्” इति ष्कन्प्रत्ययः ॥ तेषां वनिताः प्रोषितभर्तृ-