This page has been fully proofread once and needs a second look.

अपरिगणयन्नविचारयन्गुह्यको यक्षस्तं मेधं याचाचे याचितवान् ॥
“याचृ याच्ञायाम्” ॥ तथाहि । कामार्ता मदनातुराश्चेतनाश्चाचे-
तनाश्च तेषु विषये प्रकृतिकृपणाः स्वभावदीनाः । कामान्धानां
युक्तायुक्तविवेकशून्यत्वादचेतनयाच्ञा न विरुध्यत इत्यर्थः ॥ अत्र
मेघसंदेशयोर्विरूपयोर्घटनाद्विषमालंकारः । तदुक्तम् – “विरुद्धकार्य-
स्योत्पत्तिर्यत्रानर्थस्य वा भवेत् । विरूपघटना चासौ विषमालंकृ-
तिस्त्रिधा ॥” इति । सा चार्थान्तरन्यासानुप्राणिता तत्समर्थकत्वेनैव
चतुर्थपादे तस्योपन्यासात् ॥
 
संप्रति याच्ञाप्रकारमाह-
 
जातं वंशे भुवनविदिते पुष्करावर्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं
याच्ञा मो[^1]घा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥
 
जातमिति ॥ हे मेघ, त्वां भुवनेषु विदिते भुवनविदिते ॥ "निष्ठा "
इति भूतार्थे क्तः । “मतिबुद्धि - " इत्यादिना वर्तमानार्थत्वे तु
“क्तस्य च वर्तमाने” इति भुवनशब्दस्य षष्ठ्यन्ततानियमात्समासो
न स्यात् । “क्तेन च पूजायाम्" इति निषेधात् ॥ पुष्कराश्चावर्तकाश्च
केचिन्मेघानां श्रेष्ठास्तेषां वंशे जातम् । महाकुलप्रसूतमित्यर्थः । कामरू-
पमिच्छाधीनविग्रहम् । दुर्गादिसंचारक्षममित्यर्थः । मघोन इन्द्रस्य प्रकृ -
तिपुरुषं प्रधानपुरुषं जानामि । तेन महाकुलप्रसूतत्वादिगुणयोगित्वेन
हेतुना विधिवशाद्दैवायत्तत्वात् ॥ " विधिर्विधाने दैवे च” इत्यमरः ॥
“वशमायत्ते वशमिच्छाप्रभुत्वयोः” इति विश्वः ॥ दूरे बन्धु-
र्यस्य स दूरबन्धुर्वियुक्तभार्योऽहं त्वय्यर्थित्वं गतः । ननु याच-
कस्य याच्ञायां याच्यगुणोत्कर्षः कुत्रोपयुज्यत इत्याशङ्क्य – दैवाद्या-
च्ञाभङ्गेऽपि लाघवदोषाभाव एवोपयोग इत्याह – याच्ञेति ॥
तथाहि । अधिगुणेऽधिकगुणे पुंसि विषये याच्ञा मोघा निष्फलापि
वरमीषत्प्रियम् । दातुर्गुणाढ्यत्वात्प्रियत्वं याच्ञावैफल्यादीषत्प्रियत्वमिति
भावः ॥ अधमे निर्गुणे याच्ञा लब्धकामापि सफलापि न वरम् । ईष-
 
[^1] वन्ध्या.