This page has been fully proofread once and needs a second look.

पृषोदरादित्वात्साधुः । “मूतः स्यात्पटबन्धेऽपि" इति रुद्रः ॥ तेन
जीमूतेन जलधरेण प्रयोज्येन स्वकुशलमयीं स्वक्षेमप्रधानां प्रवृत्तिं वा-
र्ताम् ॥ " वार्ता प्रवृत्तिर्वृत्तान्तः" इत्यमरः ॥ हारयिष्यन्प्रापयिष्यन् ।
"लृट् शेषे च " इति चकारात्क्रियार्थक्रियोपपदाल्लृट्प्रत्ययः । जीवनार्थं
कर्म जीवनप्रदेनैव कर्तव्यमिति भावः ॥ "हृक्रोरन्यतरस्याम्" इति
कर्मसंज्ञाया विकल्पात्पक्षे कर्तरि तृतीया ॥ प्रत्यग्रैरभिनवैः कुटज-
कुसुमैर्गिरिमल्लिकाभिः ॥ "कुटजो गिरिमल्लिका" इति हलायुधः ॥
कल्पितार्घाय कल्पितोऽनुष्ठितोऽर्घः पूजाविधिर्यस्मै तस्मै ॥ "मूल्ये पूजा-
विधावर्घः” इत्यमरः ॥ तस्मै जीमूताय ॥ "क्रियाग्रहणमपि कर्तव्यम्"
इति संप्रदानत्वाच्चतुर्थी ॥ प्रीतिप्रमुखानि प्रीतिपूर्वकाणि वचनानि यस्मि-
न्कर्मणि तत्प्रीतिप्रमुखवचनं यथा तथा । शोभनमागतं स्वागतं स्वागतव-
चनं प्रीतः सन्व्याजहार । [^1] कुशलागमनं पप्रच्छेत्यर्थः ॥ नाथेन त्वत्र “प्र-
त्यासन्ने मनसि” इति साधीयान्पाठः कल्पितः । प्रत्यासन्ने प्रकृतिमापन्ने
सतीत्यर्थः । यस्तु तेनैव पूर्वपाठविरोधः प्रदर्शितः सोऽस्माभिः "आषा-
ढस्य प्रथमदिवसे" इत्येतत्पाठविकल्पसमाधानेनैव समाधाय परिहृतः ॥
 
ननु चेतनसाध्यमर्थे कथमचेतनेन कारयितुं प्रवृत्त इत्यपेक्षायां
कविः समाधत्ते--
 
धूमज्योतिः सलिलमरुतां संनिपातः क्व मेघः
संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे
कामार्ता हि [^2]प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५ ॥
 
धूमेति ॥ धूमश्च ज्योतिश्च सलिलं च मरुद्वायुश्च तेषां संनिपातः
संघातो मेघः क्व । अचेतनत्वात्संदेशानर्ह इत्यर्थः । पटुकरणैः समर्थे -
न्द्रियैः ॥ "करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि " इत्यमरः ॥
प्राणिभिश्चेतनैः ॥ "प्राणी तु चेतनो जन्मी" इत्यमरः ॥ प्रापणीयाः
प्रापयितव्याः । संदिश्यन्त इति संदेशास्त एवार्थाः क्व । इत्येवमौ-
त्सुक्यादिष्टार्थोध्युक्तत्वात् ॥ “इष्टार्थोद्युक्त उत्सुकः" इत्यमरः ॥
 
 
[^1] अत्र 'संप्रदानत्वात्कुशलप्रश्नेनाभिमुखीचकारेत्यर्थः' इति पाठान्तरम्. [^2] प्रणय