This page has not been fully proofread.

नवमसर्गः
 
कयोस्तत्सेनयोरुभयोरपि वर्णितं यद्यपि युद्धं नैव तदकथनं दोषाय ।
तादृशः । नवमः नवानां पूरण: नवसंख्यापूरकः । पूर्ववत् डट् । भट्
च । ( सर्गः इति समाप्तः) इति तु विशेषः ॥
 
इति
 
श्रीपरमेश्वरीकृपासगुपलब्धशास्त्रसाहितीवैदुष्य
'साहित्यालङ्कार' 'विद्वत्कवीशान '
 
पोतुकुच्चि सुब्रह्मण्यशास्त्रिणा
 
' काव्यकलानिधि' 'महीशूरमहाराजास्थानमहाविद्वत्कवि '
 
,
 
श्रीचिदम्बरशास्त्रिणां भागिनेयेन विरचितया
 
"
 
भावप्रकाशिकाख्यव्याख्यया समलङ्कृतायाम्
श्रीगङ्गादेव्याः कृतौ मधुराविजये महाकाव्ये
मधुराविजयप्रशंसा नाम
नवमसर्गः:
 
मूकस्य भाषणं काण दर्शनं पङ्गलङ्घनम् ।
यत्कृपालेशतस्साध्यं किन्न्वशक्यं तदाश्रयात् ॥
 
555
 
श्रीपते मद्यशोमूर्ति कृतिमेतां भवत्प्रियाम् ।
न्यस्तां तावकहस्ताब्जे पालयाचन्द्रतारकम् ॥
मङ्गलं महत्
 
॥ समाप्तम् ॥