This page has not been fully proofread.

83)
 
नवमसर्गः
 
च्युतेऽपि शीर्षे चलिताश्ववत्गा
नियन्त्रणव्यामृतवामपाणिम् ।
प्रतिप्रहारप्रसृतान्यहस्तं
 
वीरः कबन्धं द्विषतोऽभ्यनन्दीत् ॥
 
11
 
देवताहर्षो वर्ण्यते -
 
-
 
39
 
549
 
च्युत इति ॥ शीर्षे शिरसि तुरुष्कराजस्येत्यर्थः । च्युते शरी
रात् गलितेऽपि तस्मात् वियोजितेऽपि प्राणे गतेऽपीति यावत् । चलिताः
कम्पमाना: धावन्त इत्यर्थः । तादृशाः अश्वा हयाः तेषाम् वल्गाभिः
( अश्व) रश्मिभिः नियन्त्रणम् नियमनम् निरोध: वारणम् तत्र व्या
पृतः चेष्टितः प्रसृतः वामपाणिः सव्यहस्तः यस्य तम् । द्विषत:
शत्रो: तुरुष्कवीरस्य कबन्धम् शिरोविहीनम् देहम् । कर्म । गतेऽपि
प्राणे पूर्वसंस्कारबलेन शत्रौ प्रतिक्रियाचरणेन वैरनिर्यातनाय
प्रयतमानमित्यर्थ: । वीर: शूर: ( कम्पन: ) कर्ता । अभ्यनन्दीत् प्रशंस
यामास । स्वयं वीरत्वाद्वीरकृत्यमिमं शत्रावपि दृष्ट्वा भृशं तुष्टावेति
नायकस्यौदार्यं प्रशस्यते । हठाच्छीर्षे खण्डिते पूर्ववासनाबलादेवंप्रवृत्तिः
कबन्धस्य न विरुद्धा - "नभसि तमभिवीक्ष्य घोररूपं दिशि दिशि
तत्र पलायिते नृपौधे । मरणसमयमुष्टिलग्नशस्त्रस्तदभिमुखः प्रययौ
कबन्ध एव" इत्यादीनि कवयो यतो वर्णयन्ति सहस्रशः ॥
 
मानोन्नते कम्पनृपस्य मौलौ
पपात दिव्यद्रुमपुष्पवृष्टिः ।
स्वयंवराभ्युत्सुकराज्यलक्ष्मी
विमुक्तमुक्ताक्षतजालकल्पा ।
 
11 40 11
 
मानेति ॥ मानः सम्मान गौरवम् पूजनीयता तेन उन्नते