This page has not been fully proofread.

538
 
मधुराविजये
 
प्राण
 
इव भृशं
 
वीक्षणानीवेत्युत्प्रेक्षा । निरस्ता: क्षिप्ता: विसृष्टा इत्यर्थः ।
हरणोद्युक्तायास्तस्या देवतायाः भीतिजनकाः मृत्युदृष्टय
व्यथां तस्य जनयामासुरित्यर्थः । उभयोरपि वीरयोर्नायकप्रतिनायकयो
र्युध्यमानयोविजयलक्ष्मीकटाक्षैरनुगृहीत एक आसीत् । मृत्युदेवतावीक्षणं
रनुगृहीतोऽपर आसीत् । प्राणहारका इव कम्पराजप्रयुक्ताश्शरा यवन
राजे तीव्रवेदनामकल्पयन् । कम्पराजे तु यवनराजप्रयुक्ताश्शराः पुष्पा
णीव तदलङ्करणायैव भूत्वा निष्फला अभवन्निति तात्पर्यार्थः । नायक
प्रतिनायकबाणेषु वीरलक्ष्मीकालरात्रि कटाक्षभूतत्वं संभाव्यत इत्युत्प्रेक्षा
 
द्वयमिदम् ।
 
एतयोर्नैरपेक्ष्यात्संसृष्टिः ।
 
अचिरादेव वीरलक्ष्मीस्वयं
वरणं नायकस्य, मृत्युदेवतापरीरम्भश्च प्रतिनायकस्य भविष्यतीत्यनेन
ज्ञायते ॥
 
स केरलप्राणमरुद्भ जङ्गान्
वन्यावनीन्द्रद्रुमदाववह्नीन् ।
 
अन्ध्रान्धकारक्षयतिमभासो
बाणान मुञ्चद्यवने नरेन्द्रः ॥
 
(
 
30
 
स इति ॥ सः नरेन्द्र कम्पराट् । कर्ता । केरलः केरलानां
 
राजा ।
 
कम्बोजादिभ्यो लुग्वचनं चोलाद्यर्थ ' मिति
 
तद्राजप्रत्य
 
यस्य लुक् । तस्य प्राणमरुतः प्राणवायवः तेषाम् भुजङ्गान् सर्पान्
तन्नाशकानित्यर्थः । सर्पाणां पवनाशनत्वेनैवमुक्तिः । समुद्धतं केरल
 
राजं युद्धे हत्वा तद्राज्यं
भावः । वने भवः वन्यः आटविकः स चासौ
विजयनगरस्य
 
सामन्त राज्यमकरोदिति
 
अवनीन्द्रः भूपः
 
आटविकराजः काञ्चीपुरपरिपालकश्चम्पराय इत्यर्थः । स एवम
वृक्षः तस्य दाववह्नयः दवाग्नयः त इव दाहका: नाशकाः तान् ।
 
दवाग्निश्शाखोपशाखं वृक्षमिव सपरिवारं तं नामावशेषं
इत्यर्थः । अन्ध्रा: आन्ध्रराजाः त एव अन्धकाराः तिमिराणि तेषां
 
कृत