This page has not been fully proofread.

534
 
मधुराविजये
 
अतएवैवं
तिष्ठति
 
इत्याश्रित्य
 
ङ्गदानाम् घोषः ध्वनिः । तस्य शङ्काम् स इति शङ्काम् तादृशीं
संभावनामित्यर्थः । चकार अकरोत् । तथा समभावीत्यर्थः । तुरुष्क
प्रभुणा कृतो धनुष्टङ्कारो ज्यानिनादश्च गम्भीरो वर्तते । बाढमा
स्फाल्यमानत्वेन तयोरुच्चैर्नादोऽत्र जायते । अतएव जयलक्ष्म्या उच्च
लनमित्युच्यते । तत्र च नूपुरघोषो महान् भवति ।
संभावना । इतः पूर्वं बहो: कालादेनं वीर
जयलक्ष्मीरस्मिन् । इदानीं तस्य दुश्शीलेन वीरवरेण्यस्य सकलगुणाभि
रामस्य कम्पराजस्य लाभेन च, साऽस्मिन् विरक्ता गन्तुं त्वरते ।
वार्यमाणाऽपि स्थातुं नेच्छति । उत्प्लुत्य गच्छति । एवं
स्तस्याः प्रयाणसंभ्रमेणोच्चैर्नादम् नदतः पादाङ्गदे । तावेवैतौ ध्वनी ।
नोचेत्कथं वा ध्वनेरेतावन्महत्त्वमिति । अत्र धनुर्ज्याटंकारयोर्जयलक्ष्मी
नूपुरध्वनित्वेन संभावनेति द्रव्यस्वरूपोत्प्रेक्षेयम् । इतः पूर्व प्रतियुद्धं
विजयस्साधितस्तेन । इदानीं तु न तथा साधितुं शक्यते । मरणमस्य
ध्रुवमिति तु प्ररमार्थः ॥
 
गच्छन्त्या
 
श्लाघते
 
शत्रावपि गुणं दृष्ट्वा हर्षति कम्पराज इति तस्य गुणज्ञतां
 
-
 
पराक्रमाधः कृतचोलपाण्डचं
वल्लालसम्पल्लतिका कुठारम् ।
रणोन्मुखं कम्पनृपोऽभ्यनन्दी
द्वी रस्सुरत्राणमुदग्रशौर्यः ॥
 
पराक्रमेति ॥ उदग्रम् भयंकरम्
 
शत्रूणामित्यर्थः ।
 
शौर्यम्
 
शूरता विक्रमः यस्य । तादृशः । अतएव वीरः पराक्रमवान् कम्प
नृपः कम्पनप्रभुः । कर्ता । पराक्रमेण स्ववीर्येण अधःकृता: निराकृताः
 
पराजिताः राज्याद् भ्रंशिताः चोलपाण्डया: तद्राजा: येन ।
 
11
 
27 11
 
तथा