This page has not been fully proofread.

81)
 
नवमसर्ग:
 
सटाच्छटा
 
शब्दस्य समूहार्थकत्वं च प्रसिद्धम् तथा च माघः
 
इति । चकाशे
 
भिन्नघनेन बिभ्रता नृसिंह सै हीमतनुं तनुं त्वया
विरराज ।
यथा वा धूमदर्शनं वरनुमापकं लोके तथा महता
ऽश्वज़वेन भृशं कम्पमाना दैर्घ्यमापन्ना तद्वेणिरनुमापिका भवति
वैरिषु पराक्रममयं
दर्शयिष्यति क्रोधेन महताऽप्रतिहतमित्यस्येति
भावः । मणिकान्तिभिस्संकलिता नीलवर्णा तस्य दीर्घा वेणिस्तरकोऽधाग्ने
रचिरादेव प्रज्वलिप्यतः पुरस्तान्त्रिता स्फुलिङ्गविराजिता घूमरेखेव
संदृश्यत इति तात्पर्थः । महावेगेन शत्रून् प्रति तुरङ्गमं वल्गयत
स्वस्य तद्वेगेन भृशं कम्पमाना दीर्घा च वेणिः कथयति वैरिषु
विस्रक्ष्यत्ययमद्यैव क्रोधाग्निमिति परमार्थ: । अत्र स्फुलिङ्गसहितधूम
राशित्वं वेणी संभाव्यत इति द्रव्यस्वरूपोत्प्रेक्षेयम् ॥
 
-
 
मधुराविजयस्य नान्दी प्रस्तूयते
 
-
 
आस्फाल्यमानस्य च तेन गाढ़
 
शाङ्गस्य मौर्वानिनदश्चकार ।
 
चिरात्परित्यज्य तमुच्चलन्त्या
 
जयश्रियो नपुरघोषशङ्काम् ॥
 
11
 
26 11
 
586
 
आस्फ़ाल्येति ॥ तेन तादृशा तुरुष्कप्रभुणा । भृशं क्रोधवते
 
त्यर्थः ।
 
गाढम् दृढम् आस्फाल्यमानस्य ताडयतः शार्ङ्गस्य धनुषः
 
धनुष्पाटवपरीक्षार्थं वीरैरास्फाल्यते धनुरित्येवमुच्यते । ( तस्य )
मौर्वीनिनदः आकृष्यमाणाया ज्यायाः घोषश्चेत्युभयमिति यावत् । सः
कर्ता । चिरात् बहो: कालात् । तम् यवनराजम् परित्यज्य त्यक्त्वा
उच्चलन्त्याः उत्पतन्त्याः निर्गच्छन्त्याः । 'निर्गच्छति च
निस्सरत्युत्पतत्यपि । उद्गच्छत्युद्व्रजत्युद्यात्युत्तिष्ठत्युच्चलत्यपि ' इति
 
निर्याति
 
क्रियानिघण्टुः
। तादृश्याः जयश्रियः विजयलक्ष्म्याः नूपुराणाम् पादा